Page loading... Please wait.
3|3|42 - संघे चानौत्तराधर्ये
॥ तस्मै पाणिनये नमः ॥
3|3|42
SK 3214
संघे चानौत्तराधर्ये   🔊
सूत्रच्छेदः
संघे (सप्तम्येकवचनम्) , च (अव्ययम्) , अनौत्तराधर्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
चेः इत्येव। प्राणिनां समुदायः सङ्घः। स च द्वाभ्यां प्रकाराभ्यां भवति। एकधर्मसमावेशेन, औत्तराधर्येण वा। तत्र औत्तराधर्यपर्युदासादितरो गृह्यते। सङ्घे वाच्ये चिनोतेर् धातोः घञ् प्रत्ययो भवति आदेश्च कः। भिक्षुकनिकायः। ब्राह्मणनिकायः। वैयाकरणनिकायः। अनौत्तराधर्ये इति किम्? सूकरनिचयः। प्राणिविषयत्वात् सङ्घस्य इह न भवति। कृताकृतसमुच्चयः। प्रमाणसमुच्चयः।
`एकधर्मनिवेशेन` इति। एकधर्मानुगमनेनेत्यर्थः॥
प्राणिनां समुदायः सङ्घ इति । ठ्सङ्गोद्घौ गणप्रशंसयोःऽ इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औतराधर्येणेति । उतरे चाधरे चोतराधराः, तेषां भाव औतराधर्यम् । सूकरनिचय इति । स्तनपानाय यदोतराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ॥
सिद्धान्तकौमुदी
चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
संघे चानौत्तराधर्ये - सङ्घे चानौत्तराधर्ये । उत्तरे चाधरे चोत्तराधरास्तेषां भाव औत्तराधर्यम् । सूकरेति । स्तनपानार्थंमुत्तराधरभावेन सूकराः शेरते तदैतत्प्रत्युदाहरणम् । यदा तु भिक्षुवत्पृथक्पृथगेवावतिष्ठन्ते तदेहापि घञ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.