Page loading... Please wait.
3|3|41 - निवासचितिशरीरोपसमाधानेष्वादेश्च कः
॥ तस्मै पाणिनये नमः ॥
3|3|41
SK 3213
निवासचितिशरीरोपसमाधानेष्वादेश्च कः   🔊
सूत्रच्छेदः
निवास-चिति-शरीर-उपसमाधानेषु (सप्तमीबहुवचनम्) , आदेः (षष्ठ्येकवचनम्) , च (अव्ययम्) , कः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
चेः इत्येव। निवसन्ति अस्मिनिति निवासः। चीयते ऽसौ चितिः। पाण्यादिसमुदायः शरीरम्। राशीकरनम् उपसमाधानम्। एतेष्वर्थेषु चिनोतेः घञ् प्रत्ययः भवति, धातोरादेश्च ककार आदेशः। निवासे तावत् चिखल्लिनिकायः। चितौ आकायम् अग्निं चिन्वीत। शरीरे अनित्यकायः। उपसमाधाने महान् गोमयनिकायः। एतेषु इति किम्? चयः। इह कस्मान् न भवति महान् काष्ठनिचयः? बहुत्वम् अत्र विवक्षितं न उपसमाधानम्।
`राशीकरणम्` इति। प्रकीर्णस्यैकत्रकरणमित्यर्थः। `चिखल्लिनिकायः` इति। चिखल्लिर्जनपदः, तस्य निकायः = निवासः। अथादिग्रहणं किम्? अर्थस्य मा भूत्। यद्येवम्, `चः कः` इति वक्तव्यम्? एवं तर्हि यदा यङ्लुगन्तादुत्पद्यते तदा `{अन्त्याभावे अन्त्यसदेशस्य` शाक।प।}अन्त्यविकारेऽन्त्यसदेशस्य` (शाक।प।56) इति द्वितीयस्य चकारस्य मा भूदित्यवमर्थमादिग्रहणम्॥
एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः---जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः । बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः । ठ्चः कःऽ इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति---गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ॥
सिद्धान्तकौमुदी
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
निवासचितिशरीरोपसमाधानेष्वादेश्च कः - आकायमिति । आचीयन्तेऽस्मिन्निष्टका इत्याकायम् । अधिकरणे घञ् । अग्निम् = अग्निस्थानविशेषं, चिन्वीत = चयनेन निष्पादयेदिति श्रुत्यर्थः ।
लघुसिद्धान्तकौमुदी
एषु चिनोतेर्घञ् आदेश्च ककारः। उपसमाधानं राशीकरणम्। निकायः। कायः। गोमयनिकायः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.