॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|40
SK 3212
3|3|40
हस्तादाने चेरस्तेये   🔊
SK 3212
सूत्रच्छेद:
हस्तादाने - सप्तम्येकवचनम् , चेः - पञ्चम्येकवचनम् , अस्तेये - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
हस्तादाने गम्यमाने चिनोतेर् धातोः घञ् प्रत्ययो भवति, न चेत् स्तेयं चौर्यं भवति। हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते। पुष्पप्रचायः। फलप्रचायः। हस्तादने इति किम्? वृक्षशिखरे फलप्रचयं करोति। अस्तेये इति किम्? फलप्रचयश्चौर्येण। उच्चयस्य प्रतिषेधो वक्तव्यः।
`हस्तादानग्रहणेन` इत्यादि। हस्तेनोपायान्तरनिरपेक्षेणोपादानम् = प्रत्यासत्तिः, ततएव वस्तुनो भवति, तस्माद्धस्तादानग्रहणेन ग्राह्रस्य वस्तुनः प्रत्यासन्नतोपलक्ष्यते; हस्तादानशब्दाभिधेयस्यार्थस्य प्रत्यासत्तेः साहचर्यात्।`वृक्षशिखरे` इत्यादि। वृक्षशिखरग्रहणेनादेयस्याप्रत्यासन्नत्वं सूचयति॥
हस्तादानग्रहणेनेत्यादि । यत्रोपायान्तरनिरपेक्षेण हस्तेनैवादेयमादीयते, तत्रावश्यमादेयस्य ग्राह्यस्य प्रत्यासतिर्भवति, अतः साहचर्यं लक्षणाहेतुः । वृक्षशिखर इति । वृक्षाग्रे यानि फलानि तेषां यष्ट।लदिना प्रचयं करोतीत्यर्थः । यद्वा---आरुह्य हस्तेनादानेऽप्यादेयस्य प्रत्यासत्यभावाद् घञभावः ॥
सिद्धान्तकौमुदी
हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!