Page loading... Please wait.
3|3|39 - व्युपयोः शेतेः पर्याये
॥ तस्मै पाणिनये नमः ॥
3|3|39
SK 3211
व्युपयोः शेतेः पर्याये   🔊
सूत्रच्छेदः
वि-उपयोः (सप्तमीद्विवचनम्) , शेतेः (पञ्चम्येकवचनम्) , पर्याये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वि उप इत्येतयोः उपपदयोः शेतेर् धातोः घञ् भवति पर्याये गम्यमाने। तव विशायः। मम विशायः। तव राजोपशायः। तव राजानम् उपशयितुं पर्यायः इत्यर्थः। पर्याये इति किम्? विशयः। उपशयः।
पर्यायोऽनुपात्यय एव,तत्रानुपात्ययग्रहणानुवृत्त्यैव सिद्धे पर्यायग्रहणं बाधकबाधनार्थम्। अभिविधिविवक्षायां परिमाणमपि बाधित्वा घञेव यथा स्यात्। एवञ्चार्थे शब्दाधिक्यादर्थाधिक्यं भवतीति लभ्यते, न तु पर्यायशब्दोऽस्यार्थस्य वाचकः॥
पूर्वसूत्रेणानुपात्यये पर्यायशब्दो व्युत्पादितः, ततश्चानुपात्यय इत्यधिकारेणैव सिद्धे पर्यायग्रहणं पुनर्विधानार्थम् । तेनाभिविधिविवक्षायां परमपीनुणं बाधित्वाऽयमेव घञ् भवति । राजानमुपशयितुं पर्याय इत्यर्थ इति । ठ्कालसमयवेलासु तुमुन्ऽ इत्यत्र कालेऽत्यर्थग्रहणम् । पर्यायोपादानं तु प्रपञ्चार्थम्, यथा---ठ्निमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति । तेन पर्यायशब्दयोगेऽपि तुमुन् भवति । तथा चावसरो भोक्तुम्, अवकाशो भोक्तुमित्याद्यपि दृश्यते । विशयःउ संशयः, उपशयःउसमीपशयनम् ॥
सिद्धान्तकौमुदी
तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.