Page loading... Please wait.
3|3|38 - परावनुपात्यय इणः
॥ तस्मै पाणिनये नमः ॥
3|3|38
SK 3210
परावनुपात्यय इणः   🔊
सूत्रच्छेदः
परौ (सप्तम्येकवचनम्) , अवनुपात्यये (सप्तम्येकवचनम्) , इणः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिशब्दे उपपदे इणो धातोः घञ् प्रत्ययो भवति, अनुपत्यये गम्यमाने। क्रमप्राप्तस्य अनतिपातो ऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः। अनुपात्यये इति किम्? कालस्य पर्ययः। अतिपातः इत्यर्थः।
`अनतिपातः` इति। अनितक्रम इत्यर्थः। `अतिपात इत्यर्थः` इति। अतिक्रम इत्यर्थः॥
इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि---परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
परावनुपात्यय इणः - परावनु । अत्र व्याचख्युः — द्विः परिग्रहणमिह व्यर्थम् । सकृदेव कर्तुं शक्यम् । तथा हि — परौ नियो द्यूते॑,इणोऽनुपात्यये॑,नावभ्रेषे॑ । इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः । ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रियवशे वदः खच् (805) (484 खच्प्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.16 सू.) (2033 खच्प्रत्ययवार्तिकम्।। 1 ।।) - खच्प्रकरणे गमेः सुपि उपसंख्यानम्- (भाष्यम्) खच्प्रकरणे गमेः सुपि उपसंख्यानं कर्तव्यम्। मितंगमो हस्ती मितंगमा हस्तिनी।। (2034 वार्तिकम्।। 2 ।।) - खच्च डिद्धा- (भाष्यम्) डे च विहायसो विह इत्ययमादेशो वक्तव्यः विहगः।। प्रियवशे।। 38 ।।