॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|37
SK 3209
3|3|37
परिन्योर्नीणोर्द्यूताभ्रेषयोः   🔊
SK 3209
सूत्रच्छेद:
परि-न्योः - सप्तमीद्विवचनम् , नी-णोः - षष्ठीद्विवचनम् , द्युत-अभ्रेषयोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
परिशब्दे निशब्दे च उपपदे यथासङ्ख्यं नियः इणश्च धातोः घञ् प्रत्ययो भवति। अचो ऽपवादः। द्यूताभ्रेषयोः, अत्र अपि यथासङ्ख्यम् एव सम्बन्धः। द्यूतविषयः चेन् नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः। पदार्थानाम् अनपचारो यथाप्राप्तकरणम् अभ्रेषः। द्यूते तावत् परिणायेन शारान् हन्ति। समन्तान् नयनेन। अभ्रेषे एषो ऽत्र न्यायः। द्यूताभ्रेषयोः इति किम्? परिणयः। न्ययं गतः पापः।
`पदार्थानाम्` इत्यादि। पदार्शब्दो वस्तुवाची। कुत्सितश्चारः = अपचारः।यताप्राप्तस्याकरणमित्यर्थः। यथाप्राप्तस्याकरणमसाध्वेतदितिलोके कुत्स्यते, तस्मादन्यः शान्तश्चारोऽनपचारः। एतमेवार्थं पर्यायान्तरेण व्यक्तीकर्त्तुमाह-- `यथाप्राप्तस्य करणम्` इति। यद्यत् प्राप्तिमिति `यथाऽसादृश्ये` 2|1|7 इतिवीप्सायामव्ययीभावः। करणम् = सम्पादनम्। एतुदुक्तं भवति-- युक्तेरागमाल्लोकप्रसिद्धेर्वा यः पदार्थानां प्राप्नोति तस्य सम्पादनमभ्रेष इति।`{ भ्रेषृ गतौ-धातुपाठः-} भ्रेष चलने` (धातुपाठः-884) भ्रेषणम् = भ्रेषः, स्वरूपात् तच्चलनम्। अभ्रेषो भ्रेषस्वरूपादचलनम्। एवं हि पदार्थाः स्वरूपादचलिता भवन्ति यदि प्राप्तं नातिवत्र्तन्ते। `परिमायेन` इति। `उपसर्गादसमासेऽपि णोपदेशस्य` 8|4|14 इति णत्वम्। `हन्ति` इति बाधते। `समन्तान्नयनेन` इति। परिणायेनेत्यस्येदमर्थकथनम्॥
अक्षादिभिः क्रीडनं द्यौउतम् । ठ्भ्रेप चलनेऽ भ्रेषणं भ्रेषःउचलनम् । अभ्रेषःउअचलनम् । भ्रेषविषयश्चेदिति । अयमपि ग्रन्थः पूर्वानुसारेण योज्यः । अनपचार इति । कुत्सितश्चारोऽपचारः, तस्मादन्यः प्रशस्तः चारोऽनपचारः । एतदेवस्पष्टयति---यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः प्राप्नोति । क्वचितु यथाप्राप्तकरणमिति पठ।ल्ते । परिणायेनेति । ठुपसर्गादसमासेऽपिऽ इति णत्वम् । हन्तीति बाधते । समन्तान्नयनेनेति । परिणायेनेत्यस्येदमर्थकथनम् । एषोऽत्र न्याय इति । एतदत्र यथाप्राप्तमित्यर्थः । परिणयःउविवाहः । न्ययःउनाशः ॥
सिद्धान्तकौमुदी
परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
परिन्योर्नीणोर्द्यूताभ्रेषयोः - परिन्योः । अक्षादिभिः क्रीडनं द्यूतम् । यथाप्राप्तकरणमभ्रेषः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!