Page loading... Please wait.
3|3|30 - कॄ धान्ये
॥ तस्मै पाणिनये नमः ॥
3|3|30
SK 3201
कॄ धान्ये   🔊
सूत्रच्छेदः
कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उन्न्योः इति वर्तते। कृ̄ इत्येतस्माद् धातोरुन्न्योः उपपदयोः घञ् प्रतयो भवति, धान्यविषयश्चेद् धात्वर्थो भवति। विक्षेपार्थस्य किरतेर् ग्रहणं, न हिंसार्थस्य, अनभिधानातुत्कारो धान्यस्य। निकारो धान्यस्य। धान्ये इति किम्? भैक्ष्योत्करः। पुष्पनिकरः।
धान्यमिह प्रकृत्यर्थो वा स्यात्? प्रत्ययार्थो वा स्यात्? प्रकृत्यर्थस्तावन्नोपपद्यते;धान्यस्य द्रव्यत्वात् धातोश्च क्रियावाचित्वात्। प्रत्ययार्थस्तूपपद्यते धान्यम्;किन्तु प्रत्ययेनाबिहितत्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति। अथापि प्रयोगः स्यात्? एवमपि प्रत्ययर्थेऽन्तर्भूतत्वात् षष्ठी नोपपद्यते-- उत्कारो धान्यस्येति। सामानाधिकरण्यमेव प्रत्ययान्तेन स्यात्, एवं हि प्रत्ययर्थो भवति यदि प्रत्ययान्तेन सामानाधिकरण्यं भवति, यथा-- दृतिहरिः पशुरिति। तस्मान्नेदं प्रत्ययार्थः,नापि प्रकृत्यर्थः, अपि तु प्रकृत्यर्थविशेषणमिति हिंसार्थस्य` इति। `कृ हिंसायाम्` (धातुपाठः-1496) इत्यस्य ग्रहणं न भवति। किं कारणमित्याह-- `अनभिधानात्` इति। शब्दशक्तिस्वाभाव्यादुत्कारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा। यस्य चार्थः प्रत्ययान्तेनाभिधीयते तस्यैव ग्रहणं युक्तम्, नेतरस्य। `उत्कारो धान्यस्य` इति। विक्षेपो दान्यस्येत्यर्थः॥
धान्यमिह प्रकृत्यर्थो वा स्यात्प्रत्ययार्थस्य वा कारकस्योपाधिः ? प्रकृत्यर्थस्तावन्नोपपद्यते, धान्यस्य द्रव्यत्वात्, धातोश्च क्रियावाचित्वात् । प्रत्ययार्थोपाधित्वे तु प्रत्ययेनाभिहितात्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति । अथापि विस्पष्टप्रतिपत्यर्थं प्रयोगः स्यात् । एवमपि प्रत्ययार्थेऽन्तर्भूतत्वाद्धन्ये षष्ठी न स्यात्, दृतिहरिः पशुरितिवत्सामानाधिकरण्यमेव तु स्यात् । तस्मान्नायं प्रत्ययार्थस्योपाधिः; नापि प्रकृत्यर्थः; किन्तु प्रत्ययार्थस्य विषयत्वेन विशेषणमित्याह---धान्यविषयश्चेदिति । उपपदत्वमपि न न भवति, व्याख्यानात् । अनभिधानादिति । शब्दशक्तिस्वाभाव्यात् । उत्करनिकारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा । सापि धान्यस्य कीदृशीति चिन्त्यम् ॥
सिद्धान्तकौमुदी
कॄ इत्यस्माद्धान्यविषयादुन्न्योर्घञ् स्यात् । उत्कारो निकारो धान्यस्य । विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.