॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|176
SK 2220
3|3|176
स्मोत्तरे लङ् च   🔊
SK 2220
सूत्रच्छेद:
स्मोत्तरे - सप्तम्येकवचनम् , लङ् - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
माङि  [3|3|175] - सप्तम्येकवचनम् , लुङ्  [3|3|175] - प्रथमैकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
स्मोत्तरे माङि लुङ् लङ् च
सूत्रार्थ:
"स्म" यस्मात् परः अस्ति तादृशस्य माङ् अव्ययस्य विषये लुङ्लकारस्य लङ्लकारस्य वा प्रयोगः भवति ।
"स्म" तथा "माङ्" एते द्वे अव्यये स्तः । माङ्-अव्ययस्य प्रयोगः निषेधार्थम् भवति, तथा "स्म" इत्यस्य प्रयोगः "किल / खलु / सत्यम् / निश्चयेन" अस्मिन् अर्थे भवति । माङ्-अव्ययस्य उपस्थितौ धातोः माङि लुङ् 3|3|175 इत्यनेन केवलं लुङ्-लकारः एव विधीयते । परन्तु, अस्मात् माङ्-अव्ययात् अनन्तरम् "स्म" अव्ययम् अस्ति चेत् लङ्लकारस्यापि प्रयोगः भवितुम् अर्हति ।

यथा - मा स्म गमः / मा स्म गच्छः । मा स्म कार्षीत् / मा स्म करोत् ।

ज्ञातव्यम् - न माङ्योगे 6|4|74 इत्यनेन माङ्-अव्यवस्य उपस्थितौ धातोः अडागमः / आडागमः न विधीयते ।
One-line meaning in English
When माङ् is followed by स्म, the verb लुङ्लकार or लङ्लकार is used.
काशिकावृत्तिः
स्मशब्दौत्तरे माङि उपपदे धातोः लङ् प्रत्ययो भवति, चकाराल् लुग् च। मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्। मा स्म हार्षीत्। इति श्रीजयादित्यविरचितायाम् काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः। तृतीयाध्यायस्य चतुर्थः पादः।
स्मशब्द उत्तरमधिकं यस्य माङः स तथोक्तः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां तृतीयस्याध्यायस्यतृतीयः पादः
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
स्मोत्तरे लङ् च - स्मोत्तरे लङ् च । चकारान्माङि लुङित्यनुकृष्यते ।स्मे त्यव्ययमुत्तरं यस्मादिति विग्रहः । तदाह — -स्मोत्तरे माङिति । अयमपि सर्वलकारापवादः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!