॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|174
SK 3313
3|3|174
क्तिच्क्तौ च संज्ञायाम्   🔊
SK 3313
सूत्रच्छेद:
क्तिच्-क्तौ - प्रथमाद्विवचनम् , च - अव्ययम् , संज्ञायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आशिषि इत्येव। आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत् संज्ञा गम्यते। तनुतात् तन्तिः। सनुतात् सातिः। भवतात् भूतिः। मनुतात् मन्तिः। क्तः खल्वपि देवा एनं देयासुः देवदत्तः। सामान्येन विहितः क्तः पुनरुच्यते, क्तिचा बाधा मा भूतिति। चकारो विशेषणार्थः, न क्तिचि दीर्घश्च 6|4|39 इति।
`समुदायेन`इति। प्रकृतिप्रत्ययसमुदायेन। एतेन समुदायोपाधितां संज्ञाया दर्शयति। `तन्तिः`इति। `तनु विस्तारे`(धातुपाठः-1463), अत्र `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इति दीर्घः प्राप्नोति, `अनुदात्तोपदेश` 6|4|37 इत्यादिनानुसिकलोपश्च; तदुभयं `न क्तिचि दीर्घश्च` 6|4|39 इति निषिध्यते। `सातिः`इति। `षणु दाने`(धातुपाठः-1464), `जनसनखनां सञ्झलोः` 6|4|42 इत्यात्त्वम्। `देवदत्तः`इति। डुदाञो निष्ठायाम् `दो दद् घोः` 7|4|46 इति ददादेशः, `खरि च` 8|4|54 इति चत्र्वम्॥
तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति; ठ्न क्तिचि दीर्घश्चऽ इति प्रतिषेधात् । सातिरिति । सनः क्तिचि ठ्लोपश्चास्यान्यतरस्याम्ऽ इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः; ठ्न क्तिचि दीर्घश्चऽ इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥
सिद्धान्तकौमुदी
धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-(कौमुदी-3163) इति नेट् । भवतात् । भूतिः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
क्तिच्क्तौ च संज्ञायाम् - क्तिच्क्तौ । क्तिचश्चकारोन क्तिची॑ति विशेषणार्थः ।न क्त्वा॑ वित्युक्ते हि क्तिनोऽपि ग्रहणं स्यादिति भावः । तत्र एकानुबन्धपरिभाषयैव क्तिनो व्यावृत्तिसिद्धेरिति हरदत्तः । यत्तु वदन्ति — ॒तितुत्रे॑त्यत्र सामान्यग्रहणार्थश्चकारः । अन्यथा एकानुबन्धत्वादस्यैव ग्रहणं स्यान्न तु क्तिन इति, तद्रभसात्,तितुत्रे॑ति सूत्रेऽनुबन्धविशिष्टरूपानुच्चारणेनैकानुबन्धपरिभाषाया उक्तिसंभवस्यैवाऽभावात् । #एतेनतितुत्रे॑ति सूत्रे एकानुबन्धत्वात्तिबेव गृह्रते न त्वयं क्तिच् । ततश्च रोदतीति रूपं न स्यादिति शङ्काप्यपास्ता । भूतिरिति । यद्यपीह परत्वात्श्र्युकः किति॑ इत्येवेण्निषेधोन्याय्यस्तथापि वन्तितन्त्योरिण्निषेधार्थमावश्यकत्वात्फले विशेषाऽभावाच्चतितुत्रे॑त्युपन्यस्तम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!