॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|17
SK 3183
3|3|17
सृ स्थिरे   🔊
SK 3183
सूत्रच्छेद:
सृ (लुप्तपञ्चम्यन्तनिर्देश:) स्थिरे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सर्तेः धातोः स्थिरे कर्तरि घञ् प्रतयो भवति। स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते। स चिरं तिष्ठन् कालन्तरं सरति इति धात्वर्थस्य कर्ता युज्यते। चन्दनसारः। खदिरसारः। स्थिरे इति किम्? सर्ता। सारकः। व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतीसारो व्याधिः। विसारो मत्स्यः। सारो बलम्।
`सत्र्तेर्धातोः` इति। `सृ गतौ` (धातुपाठः-935) इत्यस्माद्धातोः। `स्थिरे कत्र्तरि` इति। एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणं न तूपपदमिति दर्शयति।`घञ्प्रत्ययो भवति` इति। तृजाद्यपवादः। कः पुनरयं स्थिरो नामेत्याह-- `स्थिर इति कालान्तरस्थायी` इत्यादि। तत्रैवोपपत्तिमाह-- `स चिरम्` इत्यादि। सत्र्तेर्धातोर्गतिरर्थः। स च कालान्तरस्थायिन एव कर्त्तुः सम्भवति, नात्मलाभसमनन्तरनाशिनः। तस्मात् कालान्तरस्थाय्येव गतेर्धात्वर्थस्य कत्र्ता युज्यत इत्येवेह स्थिरशब्देनोच्यते। यदि कालान्तरस्थायिन एव गतिः सम्भवति स्थिरग्रहणमनर्थकम्, न ह्रस्थिरः सर्त्त्यर्थस् कत्र्तोपपद्यते? नानर्थकम्; प्रकर्षेण यः सरति तत्र कत्र्तरि प्रत्ययो यथा स्यादित्येवमर्थत्वात्। अत एव स चिरं तिष्ठन् कालान्तरं सरतीति वृत्तौ चिरग्रहणं कृतम्। `चन्दसारः` इति। षष्ठीसमासः।`व्याधिमत्स्यबलेष्विति वक्तव्यम्` इति। अस्थिरार्थोऽयमारम्भः। एषु व्याध्यादिषु त्रिष्विपि घञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि चकारानुवृत्तिमाश्रित्य कत्र्तव्यम्। `अतीसारः` इति। `उपसर्गस्य घञ्यमनुष्ये बहुलम्` 6|3|121 इति दीर्घत्वम्॥
ठ्सृऽ इत्यविभक्तिको निर्देशः । सर्तेरिति । ठ्सृ गतौऽ, ठृ सृ गतौऽ इति द्वयोरपि ग्रहणम् । स्थिरे कर्तरीति । एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं नोपपदमिति दर्शयति । एतच्चार्धर्चादिषु सारशब्दपाठाद्विज्ञायते । ननु स्थिरशब्दस्तिष्ठतेर्गतिनिवृत्तिवाचिन उणादिषु करिच्प्रत्ययान्तो निपातितः, सतिस्तु गतिवचनः, तत्कथं सरणस्य स्थिरकर्ता युज्यते ? इत्याह---स्थिर इति कालान्तरस्थायीत्यादि । यतः कालान्तरगमनं सम्भवति, ततश्च सर्तेर्धातोरर्थस्य कर्ता युज्यत इत्यर्थः । तिष्ठन्निति च हेतौ शतृप्रत्ययः । खदिरसार इति खदिरास्थि, तत् दृढत्वात् स्थिरम् । अतीसारो व्याधिरिति । शरीरान्तरावस्थितं रुधिरादिद्रव्यमतिशयेन सारयतीति कृत्वा । अन्तर्भावितण्यर्थोऽत्र सरतिः । ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति दीर्घः । विसारो मत्स्य इति । विविधं सरतीति कृत्वा । सारो बलमिति । सारयति चेष्टयतीति कृत्वा । अत्राप्यन्तर्भावितण्यर्थः । सरतिः । बलवान्हि चेष्टते, सारशब्द उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकलिङ्ग इति च दृश्यते ॥
सिद्धान्तकौमुदी
सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः ॥ ।व्याधिमत्स्यबलेषु चेति वाच्यम् (वार्तिकम्) ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सृ स्थिरे - सृ स्थिरे । सतेरिति भ्वादेर्जुहोत्यादेश्च ग्रहणं, स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं न तूपपदमिति ध्वनयन्नाह — स्थिरे कर्तरीति । अद्र्धर्चादिषु सारशब्दपाठोऽत्र मानम् । व्याधीत्यादि । अस्थिरार्थमिदं वचनम् । तेनविसारो मत्स्य॑ इत्यत्र विविधं सरतीत्यर्थः सङ्गच्छते । अतीसार इति ।उपसर्गस्य घञी॑ति दीर्घः । सारो बलमिति । अत्रापि सृधातुरन्तर्भावितण्यर्थः, सारयति चेष्टयतीत्यर्थानुरोधात् । वलवानेव हि चेष्टते । सिद्धावस्थापन्न इति । पचतीत्यादौ तु साध्यावस्थापन्नो धात्वर्थ इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
सृ स्थिरे (992) (543 घञ्ञ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आ.12) (4012 वार्तिकम्।।1 ।।) - व्याधिमत्स्यबलेषु- (भाष्यम्) व्याधिमत्स्यबलेष्विति वक्तव्यम्। अतिसारो व्याधिः। विसारो मत्स्यः। बले ‐ शालसारः। खदिरसारः।। सृस्थिरे।। 17 ।।