Page loading... Please wait.
3|3|163 - प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च
॥ तस्मै पाणिनये नमः ॥
3|3|163
SK 2817
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च   🔊
सूत्रच्छेदः
प्रैष-अतिसर्ग-प्राप्तकालेषु (सप्तमीबहुवचनम्) , कृत्याः (प्रथमाबहुवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानम् अतिसर्गः। निमित्तभूतस्य कालस्य अवसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्ययाः भवन्ति, चकाराल् लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि करोतु कटं भवानिह प्रेषितः, भवानतिसृष्टह्, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भावकर्मणोर् विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेन अनेन लोटा बाद्यन्ते। वासरूपविधिना भविस्यन्ति? एवं तर्हि ज्ञापयति, स्त्र्यधिकारात् परेण वासरूपविधिर् नावष्यं भवति इति। विधिप्रैषयोः को विशेष? केचिदाहुः, अज्ञातज्ञापनं विधिः, प्रेषणं प्रैषः इति।
`कार्यः` इति। `ऋहलोण्र्यत्` 3|1|124 इति ण्यत्। `कृत्यः` इति। `विभाषा कृवृषोः` 3|1|120 इति क्यप्।`किमर्थमिदम्` इत्यादि द्वेष्यम्। `विशेषविहित` इत्यादि परीहारः। कृत्या हि सामान्येन विहिताः। लोट् तु प्रैषादिनार्थविशेषेण। अतस्तेन विशेषविहितेन कृत्याः प्रैषादिविषये बाध्येरन्निति पुनर्विधीयते। `वासरूप`इत्यादीना परीहारं विघटयति। `एवं तर्हि` इत्यादिना प्रेषादिषु कृत्यविधानस्य ज्ञापकत्वं दर्शयति। ननु चाऽसति प्रयोजने ज्ञापकं भवति, इह चास्ति प्रयोजनम्, किं तत्? प्रैषादि येन नियमेन कृत्या भवन्ति, नान्यत्रेति? नैतत्; अनिष्टत्वात्। अन्यत्रापि हि कृत्या दृश्यन्ते-- तृणेन शोष्यम्, बुधेन बोध्यमिति। तच्च नियमे सति न सिध्येत्, न ह्रत्र प्रैषादयो गम्यन्ते। तस्मान्नेह नियमोऽभीष्टः, न चानिर्दिष्टार्था प्रक्लृप्तिः शास्त्रे युक्ता (भो।प।सू।107)। ततो युक्तं ज्ञापकमेव;कृत्यविधानस्यावश्यम्भावात्। अवश्यंग्रहणेन न क्वचिदपि भवतीति दर्शयति। एतच्च स्त्रधिकारात् परेणापि वासरूपविधिः क्वचित् स्वरितत्वप्रतिज्ञानाल्लभ्यते। तेन कालादिषूपपदेषु वासरूपविधिना ल्युडपि भवति-- कालो भोजनस्येति। यदि तु सर्वथा वासरूपविधिर्न स्यात् तदा `कालसमयवेलासु तुमुन्` 3|3|167 इति तुमुन्नेव नित्यं स्यात्। `केचिदाहुःर`इति वचनादपरे त्वेतयोर्विशेषं नेच्छन्तीत्युक्तं भवति॥
कृत्य इति । ठ्विभाषा कृवृषोःऽ इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः । न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति । ठ्प्रैषादिष्वेव कृत्या भवन्ति नान्यत्रऽ इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते---तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः । को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् । ठ्को विशेषःऽ इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्तव्यमेव, तत्रैव कृत्या यथा स्युरिति । ठ्प्राप्तकाले चऽ इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः---प्राप्तकाले यथा स्यादिति ॥
सिद्धान्तकौमुदी
प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च - प्रैषातिसर्ग ।लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः । प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति — भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोटमुदाहरति — भवान्यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया चलोट् चे॑त्यनेनैव सिद्धेरित्यत आह — वकारेणेति । प्राप्तकाले यथा — गुरुणा भोक्तव्यम् । गुरुर्भुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः ।प्राप्तकाले च कृत्याश्चे॑त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अतः प्रैषादिग्रहणम् ।
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च - प्रैषतिसर्ग । प्रैषो विधिरिति । विधिग्रहणे कर्तव्ये प्रैषग्रहणं शिष्यबुद्धिवैशद्यार्थमित्याहुः । लोटोऽनुकर्षणमिति ।लोट् चे॑ति योगस्येदमेव प्रयोजनम् । एकयोगत्वे तु लिङोऽप्यनुकर्षणं स्यात् । प्राप्तकालार्थमिति । प्रैषतिसर्गयोः पूर्वेणैव सिद्धत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (1148) (588 कृत्यलिङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.18 ) (आक्षेपभाष्यम्) किमर्थं प्रैषादिष्वर्थेषु कृत्या विधीयन्ते, न अविशेषेण विहिताः कृत्याः ते प्रैषादिषु भविष्यन्ति, अन्यत्र च।। (5020 वार्तिकम्।। 1 ।।) - प्रैषादिषु कृत्यानां वचनं नियमार्थम्- (भाष्यम्) प्रैषादिषु कृत्यानां वचनं क्रियेत।। किं प्रयोजनम्? नियमार्थम्। नियमार्थोयमारम्भः। प्रैषादिष्वेव कृत्या यथा स्युरिति।। (5021 वार्तिकम्।। 2 ।।) - प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टम्- (भाष्यम्) प्रैषादिषु कृत्यानां वचनं नियमार्थमिति चेत्तदनिष्टं प्राप्नोति। न हि प्रैषादिष्वर्थेष्वेव कृत्या इष्यन्ते। किं तर्हि? अविशेषेण। बुसोपेन्ध्यं तृणोपेन्ध्यम्। घनघात्यम्।। (5022 वार्तिकम्।। 3 ।।) - विध्यर्थं तु स्त्रियाः प्रागिति वचनात्- (भाष्यम्) विध्यर्थे तु प्रैषादिषु कृत्यानां वचनम्। अयं प्रैषादिष्वर्थेषु लङि्वधीयते स विशेषविहितः सामान्यविहितान् कृत्यान्बाधेत्।। (कृत्यसाधकभाष्यम्) वासरूपेण कृत्या अपि भविष्यन्ति।। (कृत्यबाधकभाष्यम्) न स्युः। किं कारणम्? स्त्रियाः प्रागिति वचनात्। प्राक् स्त्रियां वाऽसरूपः।। प्रैषातिसर्ग।। 163 ।।