Page loading... Please wait.
3|3|156 - हेतुहेतुमतोर्लिङ्
॥ तस्मै पाणिनये नमः ॥
3|3|156
SK 2813
हेतुहेतुमतोर्लिङ्   🔊
सूत्रच्छेदः
हेतु-हेतुमतोः (सप्तमीद्विवचनम्) , लिङ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेहुः कारणम्। हेतुमत् फलम्। हेतुभूते हेतुमति चार्थे वर्तमानाद् धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। दक्षिणेन चेद् यायान्न शकटं पर्याभवेत्। यदि कमलकमाह्वयेन्न शकटं पर्याभवेत्। दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति। तत्र विभाषाग्रहणं तावदनन्तरम् एव अनुवर्तते। लिङिति वर्तमाने पुनर् लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थम्। तेन इह न भवति, हन्ति इति पलायते, वर्षति इति धावति। क्रियातिपत्तौ लृङ् भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
भविष्यति च काल इति । इष्यत इत्यपेक्ष्यते । कथं पुनरेतद् द्वयं सूत्रेऽनुपातमेव लभ्यते ? इत्याह---तत्रेति । लिङिति वर्तमाने इति । ठुताप्योःऽ इत्यादेः सूत्रात् । हन्तीति पलायत इति । अत्र हननं हेतुः, पलायनं हेतुमत् । वर्षणं हेतुः, सरणं हेतुमत् । पलायत इति । ठुपसर्गस्यायतौऽ इति लत्वम् । अत्र ठ्लक्षणहेत्वोः क्रियायाःऽ इति शत्रादेशोऽपि न भवति, ठ्हतियोगे च सद्विधिःऽ इति व्यवस्थितविभाषासु पठितत्वात् ॥
सिद्धान्तकौमुदी
वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ॥ ।भविष्यत्येवेष्यते (वार्तिकम्) ॥ नेह । हन्ताति पलायते ॥
हेतुहेतुमतोर्लिङ् - हेतुहेतुमतोर्लिङ् । पूर्वसूत्राद्विभाषानुवृतिंत मत्वा आह — वा स्यादिति । पक्षे लृट् । हेतुभूते फलभूते वाऽर्थे वर्तमानाद्धातोर्लिङ् वा स्यादिति यावत् । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणादिति भावः । हन्तीति । इतिर्हेतौ । वर्तमानकालिकहननाद्धेतोरित्यर्थः । अत्र लिङ्निमित्तसत्त्वाद्भविष्यति तु क्रियातिपत्तौ भूते च लृङ् ।
हेतुहेतुमतोर्लिङ् - हेतुहेतु । विभाषेत्स्याऽनुवर्तनादाह — वा स्यादिति । नमेच्चेदिति । कृष्णनतिः सुखप्राप्तौ हेतुः । *भविष्यत्येवेष्यते । भविष्यत्येवेति । लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः । हन्तीत्यादि । ननुलक्षणहेत्वोः क्रियायाः॑ इति हन्तेः शतृप्रत्ययः स्यात्, हननस्य पलायने हेतुत्वात् । मैवम् ।देवत्रातो गलो ग्राह इति योगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः॑ इतिशाच्छोरन्यतरस्यामिति सूत्रे भाष्ये व्यवस्थापितत्वात् । व्याख्यातं च कैयटेन तत्रैव सूत्रे — देवत्रात् इति संज्ञा । तत्रनुदविदोन्दत्राघ्राह्यीभ्योऽन्यतरस्या॑मिति न णत्वं भवति — देवत्राण इति । किं तु देवत्रात इत्येव ।ग्रो यङि॑,अचि विभाषा॑ इति प्राण्यह्गे नित्यं लत्वम् । गलः । विषवाचकेगर॑ इत्यत्र न भवति ।विभाषा ग्रहः॑ इति णप्रत्ययो जलचरे भवति — ग्राहः । ज्योतिषि न, — ग्रहः ।लक्षणहेत्वो॑रिति सूत्रेनन्वोर्विभाषे॑त्यतो विबाषेत्यनुवर्त्त्य व्यवस्थितविभाषाश्रयणादितिशब्दयोगे सद्विधिः = शतृशानचौ न भवतः । हन्तीति पलायते । वातायने — गवाक्षः॑ । अन्यत्र त्ववङ्न भवति — गोऽक्षः । संशितव्रत इति बहुव्रीहिः । अत्रशाच्छोरन्यतरस्या॑मिति संशात इतीत्वविकल्पो न भवति । अन्यत्र तु शातः । शितः । ते = पूर्वोक्तनत्वादिविधयो, मिथः =परस्परम् एकविषये, न विकल्प्यन्ते — तत्तद्विधायकसूत्रे व्यवस्थितविभाषाश्रयणादिति भावः । क्रियातिपत्तौ तु भूते भविष्यति च नित्यं लृङ् । यद्यवर्षिष्यत् सस्यमुपत्स्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
हेतुहेतुमतोर्लिङ् (1141) (585 लिङ्प्रत्ययविधिसूत्रम्।। 3 । 3 । 2 आ.15) (5011 वार्तिकम्।। 1 ।।) - हेतुहेतुमतोर्लिङ् वा - (भाष्यम्) हेतुहेतुमतोर्लिङ्वेति वक्तव्यम्। दक्षिणेन चेद्यायात्, न शकटं पर्याभवेत्। दक्षिणेन चेद्यास्यति, न शकटं पर्याभविष्यति। (5012 वार्तिकम्।। 2 ।।) - भविष्यदधिकारे च- (भाष्यम्) भविष्यदधिकारे इति वक्तव्यम्। इह मा भूत् ‐ -वर्षतीति धावति। हन्तीति पलायत इति।। (आक्षेपभाष्यम्) अथेदानीं शतृशानचावत्र कस्मान्न भवतः? (समाधानभाष्यम्) देवत्रातो गलो ग्राह इति योगे च सद्धिधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।। हेतुहेतुमतो।। 156 ।।