Page loading... Please wait.
3|3|153 - कामप्रवेदनेऽकच्चिति
॥ तस्मै पाणिनये नमः ॥
3|3|153
SK 2810
कामप्रवेदनेऽकच्चिति   🔊
सूत्रच्छेदः
कामप्रवेदने (सप्तम्येकवचनम्) , अकच्चिति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्वाभिप्रायाविष्करणम् कामप्रवेदनम्। कामः, इच्छा, अभिलाषः इत्यनर्थान्तरम्। तस्य प्रवेदनम् प्रकाशनम्। तस्मिन् गम्यमाने अकच्चिति उपपदे धातोर् लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। कामो मे भुञ्जीत भवान्। अभिलाषो मे भुञ्जीत भवान्। अकच्चिति इति किम्? कच्चिज् जीवति ते माता कच्चिज् जीवति ते पिता। माराविद त्वां पृच्छामि कच्चिज् जीवति पार्वती।
`कामो मे भुञ्जीत भवान्` इति। स्वाभिप्रायं परस्यानेनाविष्कारोति॥
स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति---काम इच्छेति । माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम्---मातापितरौ पृच्छामि । किमत्र पृच्छयते ? कच्चिज्जीवति ते मातेति ॥
सिद्धान्तकौमुदी
स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥
कामप्रवेदनेऽकच्चिति - कामप्रवेदनेऽकच्चिति ।अकच्चिती॑ति च्चेदः । तदाह — नतु कच्चितीति । सर्वलकारापवादः । अभिप्रायः = इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ् । प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः । अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते ।
कामप्रवेदनेऽकच्चिति - कामप्रवेदने । लिङ् स्यादिति । कालत्रये ।सर्वलकारापवादः । कच्चिज्जीवतीति ।कामो मे॑ इत्यनुषञ्जनीयम् ।वर्तमानसामीप्ये॑ इति लट् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.