Page loading... Please wait.
3|3|152 - उताप्योः समर्थयोर्लिङ्
॥ तस्मै पाणिनये नमः ॥
3|3|152
SK 2809
उताप्योः समर्थयोर्लिङ्   🔊
सूत्रच्छेदः
उत-अप्योः (सप्तमीद्विवचनम्) , समर्थयोः (सप्तमीद्विवचनम्) , लिङ् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
उत अपि इत्येतयोः समर्थयोः धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। बाढम् इत्यस्मिन्नर्थे समानार्थत्वम् अनयोः। उत कुर्यात्। अपि कुर्यात्। उताधीयीत। अप्यधीयीत। बाढमध्येष्यते इत्यर्थः। समर्थयोः इति किम्? उत दण्डः पतिष्यति? अपि द्वारं धास्यति। प्रश्नः प्रच्छादनं च गम्यते। वाऽऔताप्योः 3|3|141 इति विकल्पो निवृत्तः। इतः प्रभृटि भूते ऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ्। भविष्यति तु सर्वत्र एव नित्यः।
`समर्थयोः` इति। धातुना सामथ्र्यमिह नाश्रीयते। तयोरुपपदत्वेनैव तस्य लब्धत्वात्। तस्मात् परस्परसामथ्र्य समर्थशाब्दादिह गृह्रते। तदपि व्यपेक्षालक्षणमेकार्थीभावलक्षणमुभयमुताप्योर्न सम्भवति; पर्यायेण तयोरुपपदत्वात्, तस्मात् समानार्थलक्षणमिह सामथ्र्य समर्थशब्देन प्रतिपाद्यत इत्यत आह-- `समानार्थत्वमनयोः`इति। `कुर्यात्` एइति। उप्रत्यये कृते गुणो रपरत्वञ्च, `अत उत् सार्वधातुके` 6|4|110 इत्युत्त्वम्, `ये च` 6|4|109 इत्युकारलोपः॥
समर्थयोरिति । सूत्रे समशब्दस्य निपातनाद् ठतोलोपःऽ शकन्ध्वादित्वाद्वा पररूपत्वम् । संशब्द एव वा वृतौ समशब्देन समानार्थः, यथा---ठ्प्रोपाभ्यां समर्थाभ्याम्ऽ, यथा---मुखसंमुखस्येत्यत्रेति भावः । प्रश्नः प्रच्छादनं च गम्यत इति । आद्ये प्रश्नो गम्यते, द्वितीये प्रच्छादनम् । ननु चापिशब्दोऽपि प्रश्ने दृष्टः---ठप्यग्रणीर्मन्त्रकृतृमृषीणाम्ऽ अपि प्रसन्नं हरिणेषु ते मनःऽ इति ततश्च प्रश्नेऽपि समानार्थत्वमनयोरिति उत दण्जः पतिष्यतीति प्रत्युदाहरणानुपपतिः ? एवं मन्यते---अप्यग्रणीरित्यादौ प्रष्टव्यमर्थान्तरमपेक्ष्य समुच्चयार्थ एवापिशब्दः, प्रश्नस्त्वर्थः प्रकरणादिना गम्यते; तेन नानयोः प्रश्ने समानार्थत्वमिति ॥
सिद्धान्तकौमुदी
बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥
उताप्योः समर्थयोर्लिङ् - उताप्योः । समौ अर्थौ ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थयोरित्यर्थः । कमर्तमादायानयोरेकार्थकत्वमित्यत आह — बाढमिति । तथा च बाढार्थकयोः उत अपि इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः । उत अपि वेति । उत हन्यादघं हरिः, अपि हन्यादघं हरिरित्यन्वयः ।उताऽपी॑बाढमितयर्थकौ । गम्यते इति ।उत दण्ड पतिष्यती॑त्यत्र उतशब्देन प्रश्नो गम्यते ।अपिधास्यति द्वार॑मित्यत्र अपिना धाधातोः प्रच्छादनार्थकत्वं गम्यत इत्यर्थः । इतः प्रभृतीति ।वोताप्यो॑रिति मर्यादायामाङ् ।उताप्यो॑रत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते ।उताप्यो॑रित्यादिसूत्रेषु भूतेलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इत्येवाधिक्रियते इत्युक्तम् । एवं चउताप्यो॑रिति सूत्रप्रभृति लिङ्निमित्तेक्रियापत्तौ भूते लृङित्येवाधिक्रियते, नतु वाग्रहणम् । अतो नित्यमेवाऽत्र विषये क्रियातिपत्तौ भूते भविष्यति च लृङित्यर्थः ।
उताप्योः समर्थयोर्लिङ् - उताप्योः । धातोर्लिङ् स्यात्कालत्रये । भूतेऽपि नित्य इति । वाग्रहमस्य निवृत्तत्वाद्भविष्यतीव भूतेऽपि नित्यं लृङ् । उताऽहनिष्यद्दस्युं राजा । नाऽहन्, न हनिष्यतीति गम्यते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.