॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|15
SK 2185
3|3|15
अनद्यतने लुट्   🔊
SK 2185
सूत्रच्छेद:
अनद्यतने - सप्तम्येकवचनम् , लुट् - प्रथमैकवचनम्
अनुवृत्ति:
भविष्यति  [3|3|3] - सप्तम्येकवचनम्
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भविष्यति  [3|3|3]
सम्पूर्णसूत्रम्
अनद्यतने भविष्यति धातो: पर: लुट्-प्रत्यय:
सूत्रार्थ:
अनद्यतन-भविष्यकालं द्योतयितुम् धातोः परः लुट्-लकारः प्रयुज्यते ।
"अनद्यतन" इत्युक्ते यत् अद्यतन न, तत् । अनद्यतनकाले भविष्यमाणां क्रियां दर्शयितुम् लुट्-लकारः प्रयुज्यते ।

यथा - सः श्वः विद्यालयं गन्ता । अहं अग्रिमसप्ताहे व्याकरणम् पठितास्मि । ते अग्रिमवर्षे स्नातकाः भवितारः ।

ज्ञातव्यम् - एतत् सूत्रम् लृट् शेषे च 3|3|13 इत्यस्य अपवादरूपेण आगच्छति । लृट्-शेषे च इत्यनेन शुद्ध-भविष्यकालार्थम् सर्वत्र लृट्-प्रत्ययः विधीयते । तस्य बाधकरूपेण अनेन सूत्रेण अनद्यतन-भविष्यकालार्थम् लुट्-लकारः पाठ्यते । अतः यदि क्रियायाः "अनद्यनत्वम्" वाक्ये स्पष्टम् अस्ति, तर्हि लुट्-लकारस्यैव प्रयोगः करणीयः, लृट्-लकारस्य न । अतः "सः श्वः विद्यालयं गमिष्यति" इति वाक्यम् व्याकरणदृष्ट्या असाधु अस्ति । यत्र कालः स्पष्टः नास्ति, तत्र तु लृट्-लकारः एव प्रयोक्तव्यः । यथा - सः विद्यालयं गमिष्यति । सः अद्य श्वः वा विद्यालयं गमिष्यति ।
One-line meaning in English
लुट्-लकार is used to indicate actions that will happen tomorrow or later.
काशिकावृत्तिः
भविष्यति इत्येव। भविष्यदनद्यतने ऽर्थे वर्तमानाद् धतोः लुट् प्रत्ययो भवति। लृटो ऽपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतने इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यति। परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या। इयं नु कदा गन्ता, या एवं पादौ निदधाति। अयं नु कदा ऽध्येता, य एवम् अनभियुक्तः।
`अनद्यतन इति बहुव्रीहिनिर्देशः` इति। अद्य भावो नास्यास्मिन्नित्यनद्यतनः। `तेन` इत्यादिना बहुव्रीहिसमासाश्रयणस्य फलं दर्शयति। एतच्च `अनद्यतने लङ्` 3|2|111 इत्यत्र व्याख्यातप्रायमिति तत एवादवगन्तव्यम्। `अद्य आओ वा गमिष्यति` इति। अद्य आश्च गमिष्यतीत्यर्थः।`परिदेवने` इत्यादि। भविष्यदनद्यतने लुडुक्तो भविष्यत्सामान्ये न प्राप्नोति, इष्यते च, एतदर्थमिदमुच्यते। परिदेवनम् = अनुशोचनम्। `आस्तनी` इति। लुट इयमन्याचार्यसंज्ञा। `वक्तव्या` इति। व्याख्येया। तत्रेदं व्याख्यानम्-- `लृट् शेषे च` 3|3|13 इत्यतश्चकारोऽनुवनत्र्तते, स चानुक्तसमुच्चयार्थः। ततः परिदेवने आस्तनी भविष्यत्यर्थे भविष्यतीति। अन्यस्त्वयं नु कदा गन्तेत्यादावनद्यतन एव काले लुडिति दर्शयन्नाह-- पदमन्वाख्याने व्याकरणे च, तच्च पदं गन्तेत्यादिकमनद्यतन एव वत्र्तते। तस्य यदाऽनद्यतने भविष्यत्सामान्ये वा वृत्तिः सार्थात् प्रकरणाद्वा भवतीति वाक्यार्मथोऽवतिष्ठते। न च वाक्यार्थः पदसंस्कारस्य निमित्तम्, किं तर्हि? पदार्थः। तस्मादनद्यतने लुडित्येष सिद्धमिति। अनेन तु न्यायेन परिदेवने आस्तनीत्यादि सम्यगेतत्। लुटोऽपि टकारष्टेरेत्वार्थः; उकारः `लुटः प्रथमस्य डारौरसः` 2|4|85 इति विशेषणार्थः॥
अनद्यतन इति बहुव्रीहिनिर्द्देश इति । ठनद्यतने लङ्ऽ इत्यत्रैवैतद्व्याख्यातं तत एवावधार्यम् । परिदेवने इति । परिदेवनमुअनुशोचनम् । श्वस्तनीति । लुटः पूर्वाचार्यसंज्ञा । भविष्यन्त्यर्थ इति । भविष्यन्तीति लृटः संज्ञा, तस्या अर्थे भविष्यत्सामान्यैत्यर्थः । भावष्यदर्थ इति वा पाठः । भविष्यत्सामान्यरूपेऽर्थ इत्यर्थः । येवमिति । विलम्बितम् । अनभियुक्तःउपरिचयरहितः ॥
सिद्धान्तकौमुदी
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥
अनद्यतने लुट् - अनद्यतने लुट् । धातोरित्यधिकृतम् । "भविष्यति गम्यादयः" इत्यतो भविष्यतीत्यनुवर्तते । भविष्यत्यनद्यतन इति धात्वर्थेऽन्वेति । तदाह — भविष्यत्यनद्यतन इति । अनद्यतनशब्दस्तु परोक्षे लिडित्यत्र व्याख्यातः । उटावितौ । लुटस्तिबादयः ।
अनद्यतने लुट् - अतीताया रात्रेः पश्चार्द्धेन, आगामिन्याः पूर्वार्द्धेन सहितोदिवसोऽद्यतन इतिकालोपसर्जने च तुल्य॑मित्यत्र स्थितम्॥
लघुसिद्धान्तकौमुदी
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्॥
महाभाष्यम्
अनद्यतने लुट् (990) (542 लुङ्विधिसूत्रम्।। 3 । 3 । 1 आदृ10) (4008 वार्तिकम्।। 3 ।।) - योगविभागः- (भाष्यम्) योगविभागः कर्तव्यः ‐ ‐ अनद्यतने। अनद्यतने लृटः सत्संज्ञौ भवतः। श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन। ततः लुट्। लुट् च भवत्यनद्यतने। श्वः कर्ता। श्वोध्येता। केन विहितस्यानद्यतने लृटः सत्संज्ञावुच्येते।। एतदेव ज्ञापयति ‐ ‐ भवत्यनद्यतने लृड् इति। यदयमनद्यतने लृटः सत्संज्ञौ शास्ति।। एवं च कृत्वा सोप्यदोषो भवति। यदुक्तं भविष्यतदीत्यनद्यतन उपसंख्यानम् इति। (4009 वार्तिकम्।। 3 ।।) - परिदेवने श्वस्तनीभविष्यन्त्यर्थे- (भाष्यम्) परिदेवने श्वस्तनीभविष्यन्त्या अर्थे इति वक्तव्यम्। इयं तु कदा गन्ता यैवं पादौ निदधाति। अयं तु कदाध्येता य एवमनभियुक्त इति। (4010 वार्तिकम्।। 1 ।।) - कालप्रकर्षात्तूपमानम्- (भाष्यम्) कालप्रकर्षात्तूपमानं भविष्यति। गन्तेवेयं गन्ता नेयं गमिष्यति। अध्येतेवायमध्येता नायमध्येष्यते।। न वै तिङन्तेनोपमानमस्ति। (भाष्यम्) एवं तर्ह्यनद्यतन इवानद्यतन इति।। अनद्यतने।। 15 ।। (घञ्ञ्प्रत्ययाधिकारः)