॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|148
SK 2805
3|3|148
यच्चयत्रयोः   🔊
SK 2805
सूत्रच्छेद:
यच्च-यत्रयोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अनवक्लृप्त्यमर्षयोः इत्येव। यच् च यत्र इत्येतयोः उपपदयोरनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ् प्रत्ययो भवति। लृटो ऽपवादः। योगविभाग उत्तरार्थः। यथासङ्ख्यं नेष्यते। यच् च तत्रभवान् वृषलं याजयेत्। यत्र तत्रभवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
`लृटोऽपवादः` इति। अनवक्लृप्त्यादिसूत्रेण 3|3|145 प्राप्तस्य। अथ पूर्वसूत्र एव यच्चयत्रयोग्र्रहणं कस्मान्न कृतम्, किं योगविभागेन? इत्यत आह-- `योगविभाग उत्तरार्थः` इति। उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्मा भूत्। `यथासंख्यमिह नेष्यते` इति। पूर्वोक्तादेव लक्षणव्यभिचारचिह्नात्। स च बह्वचः पूर्वनिपातः सर्वत्रैव चात्र प्रकरणे लक्षणव्यभिचारचिह्नम्, न तु तत्रैव सूत्रे। अथ वा-- यथासंख्यार्थस्य स्वरितत्वस्याभावादिह न भवति यथासंख्यम्। उक्तं हि प्राक्-- `स्वरितेन चिह्नेन यथासंख्यं भवति` इति॥
लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उतरार्थ इति । उतरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवक्लृप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह---यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ॥
सिद्धान्तकौमुदी
यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥
यच्चयत्रयोः - यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोर्लिङ् स्यादित्यर्थः । लृटोऽपवादः । योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लृप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतन्न श्रद्दधे, न मर्षयामि वेत्यन्वयः । अत्रापिभविष्यति नित्यं लृङ्, भूते वे॑त्युक्तमनुसंधेयम् । लिङ्निमित्तस्य सत्त्वात् ।
यच्चयत्रयोः - यच्चयत्रयोः ।अनवक्लप्त्यमर्षयो॑रिति वर्तते ।यथासङ्ख्यमिह नेष्यते । अयमपि लिङ्लृटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवाऽनुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लृङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्योन श्रद्दधे न मर्षयामीत्यादि ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!