॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|145
SK 2802
3|3|145
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि   🔊
SK 2802
सूत्रच्छेद:
अनवक्ऌप्ति-अमर्षयो: - सप्तमीद्विवचनम् , अकिंवृत्ते - सप्तम्येकवचनम् , अपि - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गर्हायाम् इति निवृत्तम्। अनवक्लृप्तिः असम्भावना। अमर्षः अक्षमा। किंवृत्ते ऽकिंवृत्ते च उपपदे अनवक्लृप्त्यमर्षयोः धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासङ्ख्यं न भवति। अनवक्लृप्तौ तावत् न अवकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्रभवान् नाम वृषलं याजयेत्, तत्रभवान् नाम वृषलं याजयिष्यति। को नाम वृषलो यं तत्रभवान् वृषलं याजयेत्, को नाम तत्रभवान् वृषलं याजयिष्यति। अमर्षे न मर्षयामि तत्रभवान् वृषलं याजयेत्, याजयिष्यति। को नाम वृषलो यं तत्रभवान् याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। न अवकल्पयामि तत्रभवान् नाम वृषलम् अयाजयिष्यत्।
अत्र द्वावर्थौ, प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `बह्वचः`इत्यादि। अमर्षशब्दो ह्रनवक्लप्तिशब्दापेक्षयाल्पाच्तरः, तत्र `अल्पाच्तरम्` 2|2|34 इति तस्य पूर्वनिपाते कत्र्तव्ये योऽयमिह वह्वचोऽनवुक्लृप्तिशब्दस्य पूर्वनिपातः कृतः स लक्षणव्यभिचारार्थतां दर्शयति। यथेह पूर्वनिपातलक्षणं व्यभिचारात् स्वविषये न प्रवत्र्तते, तथा यथासंख्यलक्षममपीति, तेन यथासंख्यं न भवति। अपिग्रहणं किंवृत्तेऽपि यथा स्यात्न्यथा ह्रकिंवृत्तग्रहणे किंवृत्ते न स्यात्। यदि यथा `उपकादिभ्योऽन्यतरस्याम्` 2|4|69 इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्, तथेहाप्यकिंवृत्तग्रहणं किंवृत्ताधिकारनिवृत्त्यर्थं स्यात्, तस्मिन्निवृत्ते किंवृत्तेऽकिंवृत्ते प्रत्ययद्वयं भविष्यतीति व्याख्यायते, तदा शक्यतेऽपिग्रहणमकर्तुम्। तर्हि तत् क्रियते विस्पष्टार्थम्॥
अपिग्रहणं शक्यमकर्तुम्, कथम् ? यथा ठुपकादिभ्योऽन्यरस्यामद्वन्द्वेऽ इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थम्, तथेहाप्यकिंवृतग्रहणं किंवृताधिकारनिवृत्यर्थम्, अस्मिन्नवृते किंवृते चाकिंवृते च प्रत्ययद्वयं भविष्यति, तत्क्रियते विस्पष्टार्थम् । तथाऽकिंवृत इत्यपि विस्पष्टार्थमेव, अस्वरितत्वादेव ठ्किंवृतेऽ इत्यस्याननुवृतेरविशेषेण प्रत्ययद्वयं भविष्यति । आह च---किंवृतस्यानधिकारादुतरत्राकिंवृतग्रहणानर्थक्यमिति । नु चाकिंवृतग्रहणेन किंवृतादन्यत्पदं पर्युदासाश्रयणेन गृह्यते, तस्योपपदसज्ञां वक्ष्यामीत्यकिंवृतग्रहणं स्यात् । किं पुनरुपपदसंज्ञायाः प्रयोजनम् ? समासः ? न; अतिङिति प्रतिषेधात् । यदा तर्हि लृटः सत्संज्ञकौ भवतस्तदा समासो यथा स्यात्, नास्य लृटः सत्संज्ञकौ भवतः, ठ्लटः सद्वाऽ इत्यत्र भविष्यतीत्यधिकाराद्भविष्यतीत्येवं विहितस्य लृटो ग्रहणम् । अयं तु कालमात्रे विधानाद्यद्यपि भवति, तथापि भविष्यदधिकारविहितो न भवतीति नास्य शतृशानचौ भवतः ॥
सिद्धान्तकौमुदी
गर्हायामिति निवृत्तम् । अनवक्लृप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि - अनवक्लृप्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः । अनवक्लृप्त्यमर्षयोर्लिङ्लृटोश्च यथासङ्ख्यं नेष्यते, अल्पाच्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् हिरं निन्देदिति यत्तन्न संभवायामि, न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति — कः कतर इति । लृङ्प्राग्वदिति । भविष्यति नित्यं लृङ्, भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः ।
अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि - अनवक्लृप्त्यमर्षयोः । लिङ्लृटावनुवर्तेते, तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ । किंवृत्तस्यानधिकारादेवाऽविशेषादुभयोर्भविष्यतीत्यकिंवृत्तेऽपीति न कर्तव्यम् । पूर्वनिपाताऽर्हस्याऽल्पाऽचः परनिपातो यथासङ्ख्यनिवृत्त्यर्थः । लृङ् प्राग्वदिति । भूते वा, भविष्यति नित्यमित्यर्थः । नाऽहं भावयामि चैत्रो हरिम निन्दिष्यदित्याद्युदाहर्तव्यम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अनवक्लृप्त्यमर्षयोरकिंवृत्तेपि (1130) 582 लिङ् लृटि्वधिसूत्रम्।। 3 । 3 । 2 आ.12) (5008 अकिंवृत्तग्रहणानर्थक्यवार्तिकम्।। 1 ।।) - किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणानर्थक्यम्- (भाष्यम्) किंवृत्तस्यानधिकारादुत्तरत्राकिंवृत्तग्रहणमनर्थकम्। निवृत्तं किंवृत्ते इति, तस्मिन्नवृत्ते अविशेषण किंवृत्ते चाकिंवृत्ते च भविष्यति। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् ‐ -उपपदसंज्ञां वक्ष्यामीति। (प्रश्नभाष्यम्) उपपदसंज्ञावचने किं प्रयोजनम्? (प्रयोजनभाष्यम्) उपपदमतिङ् इति समासो यथा स्यात्। (प्रयोजनप्रत्याख्यानभाष्यम्) अतिङितिप्रतिषेधः प्राप्नोति। (प्रयोजनभाष्यम्) यदा तर्हि लृटः सत्संज्ञौ तदोपपदसंज्ञा भविष्यति। (प्रयोजननिराकरणभाष्यम्) भविष्यदधिकारविहितस्य लृटः सत्संज्ञावुच्येते अविशेषविहितश्चायम्।। अनवक्लृप्त्य।। 145 ।।