Page loading... Please wait.
3|3|144 - किंवृत्ते लिङ्लृटौ
॥ तस्मै पाणिनये नमः ॥
3|3|144
SK 2801
किंवृत्ते लिङ्लृटौ   🔊
सूत्रच्छेदः
किंवृत्ते (सप्तम्येकवचनम्) , लिङ्लृटौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गर्हायाम् इत्येव विभाषा न स्वर्यते। किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। लिङ्ग्रहणं लटो ऽपरिग्रहार्थम्। को नाम वृषलो यं तत्रभवान् याजयेत्, यं तत्रभवान् वृषलं याजयिष्यति। कतरो नाम, कतमो नाम यां तत्रभवान् वृषलं याजयेत्, याजयिष्यति। भूते क्रियातिपत्तौ वा लृङ्। भविष्यति तु नित्यम्। को नाम वृषलो यं तत्रभवानयाजयिष्यत्।
`किंवृत्ते` इति। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयतते। `डतरतमौ च` इति किंवृत्ते च लृडित्येवं कस्मान्नोक्तम्, प्रकृतो हि लिङ्, ततश्चकारेण तस्यैव समुच्ययो विज्ञास्यते, किं लिङ्ग्रहणेनेत्याह-- `लिङ्ग्रहणम्` इत्यादि। असति हि लिङ्ग्रहणे यथा प्रकृत्वाच्चकारेण लिङ समुच्चीयते, तथा लडपि समुच्चीयेत, सोऽपि हि प्रकृत एव। तस्माल्लटो निवृत्त्यर्थं लिङग्रहणं कृतम्॥
ठ्किंवृते लिप्सायाम्ऽ इत्यत्र किंवृतं व्याख्यातम् । इह किंवृते लृट् चेति वक्तव्यम्, चकारात्प्रकृतो लिङ् भविष्यति, नार्थो लिङ्ग्रहणेन ? तत्राह---लिङ्ग्रहणमिति । चकारेण लिङ् इव लटोऽपि समुच्चयः स्यात्; तस्यापि प्रकृत्वात्, तस्मात् तन्निवृत्यर्थमिति भावः ॥
सिद्धान्तकौमुदी
गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
किंवृत्ते लिङ्लृटौ - किंवृत्ते लिङ्लृटौ । नानुवर्तते इति । व्याख्यानादिति भावः । विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्हायां लिङ्लृटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लृङ् प्राग्विदिति । भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः । लिङ्निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः ।
किंवृत्ते लिङ्लृटौ - किंवृत्ते । लिङ्लृटौ कालत्रये स्तः । नानुवर्तत इति । एवं चाऽस्मिन्विषये नित्यं भूते वेत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.