Page loading... Please wait.
3|3|143 - विभाषा कथमि लिङ् च
॥ तस्मै पाणिनये नमः ॥
3|3|143
SK 2800
विभाषा कथमि लिङ् च   🔊
सूत्रच्छेदः
विभाषा (प्रथमैकवचनम्) , कथमि (सप्तम्येकवचनम्) , लिङ् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गर्हायाम् इति वर्तते। कथमि उपपदे गर्हायां गम्यमानायं धातोः लिङ् प्रत्ययो भवति, चकाराल् लट् च। विभाषाग्रहणं यथास्वं कालविषये विहितानाम् अबाधनार्थम्। कथं नाम तत्रभवान् वृषलं याजयेत्, कथं नाम तत्रभवान् वृषलं याजयति। कथं नाम तत्रभवान् वृषलं याजयिष्यति। कथं नाम तत्रभवान् वृषलं याजयिता। कथं नाम तत्रभवान् वृषलं याजयेत्। कथं नाम तत्रभवान् वृषलम् अयाजयत्। कथं नाम तत्रभवान् वृषलं यायजां चकार। अत्र लिङ्निमित्तम् अस्ति इति भूतविवक्षायां क्रियातिपत्तौ वा लृङ्। भविष्यद् विवक्षायां सर्वत्र नित्येन एव लृङा भवितव्यम्।
`विभाषाग्रहणम्` इत्यादि। यस्मिन् काले लृङादयो विहितास्तेषां बाधनं मा भूदित्येवमर्थं विभाषाग्रहणम्। यद्येवम्, अनर्थकश्चकारः, विभाषाग्रहणादेव हि लटोऽप्यबाधित्वात् सिध्यत्येव? सत्यं सिध्यति वत्र्तमाने, कालान्तरे तु न सिध्यति। न हि तत्र कथमित्युपपदे लटः प्राप्तिरिति तत् कथं विभाषाग्रहणेन सिध्यति ! तस्माल्लडर्थश्चकारः कत्र्तव्यः।`याजयेत्` इति। लिङ। `याजयिष्यति` इति। लृट्। `अयीयजत्` इति। लुङ, च्लेश्चङ, णौ चङि ह्यस्वः, णिलोपः, `चङि` 6|1|11 इति द्विर्वचनम्, `सन्यतः` 7|4|79 इतीत्त्वम्। `अयाजयत्` इति। याजयाञ्चकार` इति। लिट्। `कास्प्रत्ययात्` 3|1|35 इत्याम्, `आमः` 2|4|81 इति लेर्लुक्, तस्याव्ययत्वात् सुबलुक्, `कृञ्च` 3|1|40 इत्यादिना लिट आम्परस्य कृञोऽनुप्रयोगःष णल्, द्विर्वचनम्, अभ्यासकार्यम्, `अयामन्त` 6|4|55 इत्यादिनायादेशः। अत्र लिङ्निमित्तमस्तीति कथमित्येतत् गर्हा च? तदेतद्गर्हायां लिङो विधानाद्भूतविवक्षायां क्रियातिपत्तौ लृङिति भूते चेति वत्र्तमाने `वोताप्योः` 3|3|141 इति वचनाद्भविष्यद्विवक्षायां सर्वत्र नित्यनैव लृङा भवितव्यमिति; भवितव्यमिति; भविष्यतीति वत्र्तमाने `लिङ्निमित्ते लृङ् क्रियातिपत्तौ 3|3|139 इति वचनात्॥
विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मातदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमितमस्तीति । कथमीत्येतद्गर्हा च ॥
सिद्धान्तकौमुदी
गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥
विभाषा कथमि लिङ् च - विभषा कथमि । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः ।कालत्रये लि॑ङिति शेषपूरणम् । भविष्यतीति निवृत्तमिति । भावः चाल्लडिति । "समुच्चीयते" इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्हायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्मं त्यजेरिति । त्यक्तत्वान् त्यक्ष्यसि त्यजसि वेत्यर्थः ।गर्हितमेतदिति कथंशब्दाद्गम्यते । लटि उदाहरति — त्यजसि वेति । उक्तोऽर्थः । पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिट्लङ्लुङ्लट्लुट्लृट इत्यर्थः । अत्रेति । अत्रा = उक्तविषये भविष्यति काले क्रियाया अनिष्पत्तौ गम्यमानांलिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति नित्यमेव लृङ्, कथमो गर्हायाश्च लिङ्निमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति ।वोताप्यो॑रिति भूते लिङ् निमित्ते लृङ् वेत्यधिकृत्वादुक्तविषये भूतकाले लृङ् वेत्यर्थः । भविष्यि नित्यं लृडित्यत्रोदाहरति — कथं नामेति ।तत्र भवा॑निति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्मत्यक्ष्यत्, तत्त्यागस्य गर्हितत्वादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.