॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|142
SK 2799
3|3|142
गर्हायां लडपिजात्वोः   🔊
SK 2799
सूत्रच्छेद:
गर्हायाम् - सप्तम्येकवचनम् , लट् - प्रथमैकवचनम् , अपिजात्वोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
गर्हा कुत्सा इत्यनर्थान्तरम्। गर्हायां गम्यमानायाम् अपिजात्वोः उपपदयोः धातोः लट् प्रत्ययो भवति। वर्तमने लटुक्तः कालसामान्ये न प्राप्नोति इति विधीयते। कालविशेषविहितांश्च अपि प्रत्ययानयं परत्वादस्मिन् विषये वाधते। अपि तत्रभवान् वृषलं याजयति, जातु तत्रभवान् वृषलं याजयति, गर्गामहे, अहो अन्याय्यम् एतद्। लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति।
`कालसामान्ये न प्राप्नोति` इति। एतेन भविष्यतीत्यादेः कालविशेषवाचितोऽनुवृतिंत सूचयन्नयं कालसामान्ये विधिरिति दर्शयति-- `कालविशेषविहितान्` इति। भूते कालविशेषे लङलिटौ विहितौ, भविष्यति लुङलृटौ च। तान् सर्वान् कालसामान्ये विधीयमानो लट् परत्वाद्बाधते। `याजयति` इति। यजेर्हेतुमण्ण्यन्ताल्लट्। `लिङ्निमित्ताभावात्` इति। हेतुहेतुमदादेरिलङ्निमित्तभावादिह यद्यपि क्रियातिपत्तिर्विवक्ष्यते, तथापि लृङ न भवति॥
कालसामनये न प्राप्नोतीति । विधीयते इत्यनेन भविष्यतीत्यादेः कालविशेषवाचिनो निवृत्तिं सूचयन् कालसामान्ये विधिरिति दर्शयति । कालविशेषविहितांश्चेत्यादि । भाष्ये त्वेष निर्णयः---ठ्गर्हायां लड्विधानानर्थक्यम्, क्रियासमाप्तेरवविवक्षितत्वात् । ताच्छील्यप्रतिपादनेनात्र गर्हा, ततश्च यदनेन क्रियते तत्सर्वं वृषलयाजनार्थमिति सर्वदासौ वृषलं याजयन्नेव भवति, ततश्च क्रियायाः समाप्तिरविवक्षितेति ठ्वर्तमाने लट्ऽ इत्येव सिद्धः । यद्येवम्, शतृशानचावपि प्राप्नुतः, दृश्येते च शतृशानचावपि मां याजयन्तं पश्यत, अपि मां याजमानं पश्येति, प्रत्युत सूत्रारम्भे सत्यवर्तमानकालविहितत्वाल्लुटस्तौ न न प्राप्नुत इति दोषवानेन सूत्रारम्भःऽ इति ॥
सिद्धान्तकौमुदी
आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥
गर्हायां लडपिजात्वोः - गर्हायाम् । अपि जातु अनयोद्र्वन्द्वः । अत्रवोताप्योरिति भूते लिङ्निमित्ते लृङ् वा इत्यधिकारो न संबध्यते । लड्विधानेन तद्विषये लिङ्निमित्ताऽभावात् । कालत्रये इति । वर्तमाने भूते । भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वादिति । अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् ।अपि जाया॑मित्यत्र ,जातु गणिका॑मित्यत्र अपि- जातुशब्दौ निन्दाद्योतकौ । तदाह — गर्हितमेतदिति ।
गर्हायां लडपिजात्वोः - गर्हायाम् । अत्रवोताप्यो॑रितिन संबध्यते । वर्तमाने लडुक्तः तु न प्राप्नोतीति विधिरयम् । कालत्रय इति । कालविशेषानुपादानादिति भावः । परत्वादिति । निरवकाशत्वादित्यपि बोद्ध्यम् । अपि जायामिति । त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपियो जायामपि त्यजति जातु गणिकामाधत्ते॑ इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः । लिङ्निमित्ताऽभावादिह क्रियातिपत्तौ लृङ्न भवति । कालत्रये लकारा इति । परोक्षानद्यतनभूते लिट् — कथं धर्मं तत्यक्थ । भूतानद्यतने लह् — कथं धर्ममत्यजः । भूतसामान्ये लुङ् — अत्याक्षीः । भविष्यत्यनद्यने लुट् — त्यक्तासि । भविष्यत्सामान्ये लृट् — कथं धर्मं तय्क्ष्यसीत्यादि । अत्रेति । क्रियातिपत्ताविति ज्ञेयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गर्हायां लडपिजात्वोः (1127) (581 लडि्वधिसूत्रम्।। 3 । 3 । 2 आ.11) (4007 वार्तिकम्।। 1 ।।) - गर्हायां लडि्वधानार्थक्यं क्रियाऽसमाप्तेर्विवक्षितत्वात्- (भाष्यम्) गर्हायां लडि्वधानमनर्थकम्। किं कारणम्? क्रियाया असमाप्तेर्विवक्षितत्वात्। क्रियाया अत्रासमाप्तिर्विवक्षिता। एष एव च नाम न्याय्यो वर्तमानः कालः यत्र क्रिया अपरिसमाप्ता भवति। तत्र वर्तमाने लड् इत्येव सिद्धम्। (आक्षेपभाष्यम्) यदि वर्तमाने लड् इत्येवमत्र लड् भवति।। शतृशानचावपि तर्हि प्राप्नुतः। (इष्टापत्तिभाष्यम्) इष्येते च शतृशानचौ ‐ -अपि मां याजयन्तं पश्य। अपि मां याजयमानं पश्य।। गर्हायां ल।। 142 ।।