Page loading... Please wait.
3|3|138 - परस्मिन् विभाषा
॥ तस्मै पाणिनये नमः ॥
3|3|138
SK 2796
परस्मिन् विभाषा   🔊
सूत्रच्छेदः
परस्मिन् (सप्तम्येकवचनम्) , विभाषा (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भविष्यति मर्यादावचने कालविभागे च अनहोरात्राणाम् इति सर्वम् अनुवर्तते। कालमर्यादाविभागे सति भविस्यति काले परस्मिन् प्रविभागे विभाषा अनद्यतनवत् प्रत्ययविधिर् न भवति, न चेदहोरात्रसम्बन्धी प्रविभागः। अवरस्मिन् वर्जं पूर्वम् अनुवर्तते। अवरस्मिन् पूर्वेण प्रतिषेध उक्तः, सम्प्रति परस्मिन्नप्राप्त एव विकल्प उच्यते। यो ऽयं संवत्सर आगामी, तस्य यत् परमाग्रहायण्याः तत्र युक्ता अध्येष्यामहे, अध्येतास्महे, तत्र सक्तून् पास्यामः, तत्र सक्तून् पातास्मः। अनहोरात्राणाम् इत्येव। यो ऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। भविष्यति इत्येव। यो ऽयं संवत्सरो ऽतीतः, तस्य यत् परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि। मर्यादावचने इत्येव। यो ऽयं संवत्सरो निरवधिकः काल अगामी, तस्य यत् प्रमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः। कालविभागे इत्येव। यो ऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यत् परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्महे। इति सर्वत्र अनद्यतनवत् प्रत्यया उदाहार्याः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ (कौमुदी-2229) भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥
परस्मिन् विभाषा - परसमिन्विभाषा । अनुवर्तते इति । तथा च भविष्यति काले मर्यादोक्तौ परस्मिन् विभागे अनद्यनवद्वेति फलितम् ।लिङ्निमित्ते लृङ् क्रियातिपत्तौ॑ इति व्याख्यातं भूधातुनिरूपणे ।
परस्मिन् विभाषा - परस्मिन् ।भविष्यत्यनद्यतनवतन्ने॑ति वकल्पेन निषिध्यते । वज्र्यमिति । णिजन्तात्अचो य॑दिति कर्मणि यत् । वर्जमिति । पाठे तुद्वितीयायां चे॑ति णमुल् ।अनहोरात्रामित्येव । योऽयं वत्सर आगामी तस्य यत्परं पञ्चदशरात्रात्तत्र पयः पातास्म [इत्यादि] । लिङ्निमित्त इति । अतिपत्तिः — अनिष्पत्तिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
परस्मिन्विभाषा (1122) (577 लुटो विकल्पिविधिसूत्रम्।। 3 । 3 । 2 आ.7) (आक्षेपभाष्यम्) कस्मिन्परस्मिन्? (समाधानभाष्यम्) कालविभागे। कुत एतत्? योगविभागकरणसार्मथ्यात्। परस्मि।। 138 ।।