Page loading... Please wait.
3|3|137 - कालविभागे चानहोरात्राणाम्
॥ तस्मै पाणिनये नमः ॥
3|3|137
SK 2795
कालविभागे चानहोरात्राणाम्   🔊
सूत्रच्छेदः
कालविभागे (सप्तम्येकवचनम्) , च (अव्ययम्) , अनहोरात्राणाम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भविष्यति मर्यादावचने ऽवरस्मिनिति वर्तते। कालमर्यादाविभागे सत्यवर्स्मिन् प्रविभागे भविष्यति काले ऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्भन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः। पूर्वेण एव सिद्धे वचनम् इदम् अहोरात्रनिषेधार्थम्। योगविभाग उत्तरार्थः। यो ऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे। भविष्यति इत्येव। यो ऽयं वत्सरो ऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्जमहि। मर्यादावचने इत्येव। यो ऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे। अवरस्मिनित्येव। परस्मिन् विभाषां वक्ष्यति। अहोरात्राणाम् इति किम्? त्रिविधम् उदाहरणम् यो ऽयं मास आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, यो ऽयं त्रिंशद्रात्र आगामी, तस्य यो ऽवरो ऽर्धमासः, यो ऽयं त्रिंशदहोरात्र आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतासमहे, तत्र सक्तून् पातास्मः। सर्वथा अहोरात्रस्पर्शे प्रतिषेधः।
`कालमर्यादाविभागे सति` इति मर्यादाविभागशब्दयोः सयाहारे द्वन्द्वः। तेन कालशब्दस्य षष्ठीसमासः। `तेषाञ्च` इति। तैस्तेषाञ्चेति युक्तं यत् तेषां विभागे प्रतिषेधो भवति; तत्सम्बन्धित्वाद्विभागस्य। यदा तैरन्यस्य विभागस्तदा न युक्तम्, न हि तदा तत्सम्बन्धी विभागः। किं तर्हि? विभज्यमानसम्बन्धी। तथाप्यहोरात्रकृतत्वाद्विभागस्य सम्बन्धित्वमस्त्येव; निमित्तस्य नैमित्तिकसम्बन्धादित्यदोषः। यदि वचनमहोरात्रप्रतिषेधार्थम्, एवं च सामथ्र्यात् कालविभागस्यैव प्रतिषेधो विज्ञास्यते, न देशविभागस्य, न हि देशविभागस्याहौरात्रैः सह सम्बन्धोस्तीत्यत आह-- `योगाविभाग उत्तरार्थः`इति। उत्तरसूत्रे कालविभाग एव यथा स्यादित्येवमर्थम्, देशविभागे मा भूदिति। `अभुञ्ज्महि` इति। `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः।`त्रिविधिमुदाहरणम्` इति। तत्र प्रथमे शब्दान्तरवाच्यस्य कालस्याहोरात्रैर्विभागः, द्वितीयेऽहोरात्रवाच्यस्य शब्दान्तरवाच्ययेन कालेन विभागः, तृतीयेऽहोरात्रवाच्यस्य कालस्योरात्रवाच्येन कालेन। `सर्वथा` इति। सर्वेण प्रकारेण। यद्यहोरात्रैरन्यस्य विभागोऽथधाप्यन्येन तेषां यद्यहोरात्रैरेव तेषामेवमपि प्रतिषेध इति सर्वथाशब्दस्यार्थः। `अहोरात्रसंस्पर्शः` इति। अहोत्राणां विभागेन सम्बन्ध = अहोरात्रसंस्पर्श इति।`सर्वत्रानद्यतनवत्प्रत्यया उदाहत्र्तव्याः` इति। भूतानद्यतने-- तत्र युक्ता अध्यैमहि, तत्रोदनमभुञ्ज्महीति सर्वत्र लुङदाहत्र्तव्यः। भविष्यदनद्यतने तु-तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्मह इति सर्वत्र लुडुदाहत्र्तव्यः॥
कालमर्यादाविभागे सतीति । मर्यादा च विभागश्च मर्यादाविभागम्---समाहारद्वन्द्वः, तेन कालशब्दस्य षष्टीसमासः । न चेदहोरात्रसम्बन्धी विभाग इति । एतेनानहोरात्राणामिति सम्बन्धसामान्ये षष्ठी, न ठ्कर्तृकर्मणोःऽ इति दर्शयति । एवं सति यदिष्ट्ंअ सिद्धं तद्दर्शयति---तैरिति । तैरन्यस्य कालस्य विभागोऽन्येन वा तेषां तैरेव वा सर्वथा प्रतिषेधः । ननु पूर्वसूत्रे एवानहोरात्राणामिति वक्तव्यम्, एवमपि हि सामर्थ्यात्कालविभागस्यैव प्रतिषेधो विज्ञायते, न हि देशविभागस्याहोरात्रैः सम्बन्धोऽस्ति, तत्किं योगविभागेन ? तत्राह---योगविभाग उतरार्थ इति । उतरसूत्रे कालविभाग एव विभाषा यथा स्याद्, देशविभागे मा भूदिति । आग्रहायणीउमार्गशीर्षी । त्रिविधमुदाहरणमिति । प्रथमं तैविभागस्य, द्वितीयं तेषां विभागस्य, तृतीयं तैस्तेषामहोरात्रसंस्पर्शे उ अहोरात्रगन्धे, एतच्च प्रसज्यप्रतिषेधसमाश्रयणाल्लभ्यते । दर्शितश्च प्रसज्यप्रतिषेधः ठ्न चेदहोरात्रसम्बन्धी विभागःऽ इति; अन्यथा ठनहोरात्रसम्बन्धिनि विभागःऽ इत्यवक्ष्यत् ॥
सिद्धान्तकौमुदी
पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
कालविभागे चानहोरात्राणाम् - कालविभागः = कालविशेषः । अनहोरात्राणामिति संबन्धषष्ठी । पूर्वसूत्रमिति । तदयमर्थः — मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागोऽहोरात्रसंबन्धी न चेदित्यर्थः । इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके । केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः । उत्तरार्थ इति ।परस्मिन्विघाषे॑ति सूत्रे कालमर्यादाया एवानुवृत्तिर्यथा स्यात् । भविष्यतीति किम् । यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम । मर्यादायामिति किम् । यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः । पञ्चदशरात्र इति । नन्वत्रसङ्ख्यापूर्वं रात्र॑मिति क्लीब्तवेन भाव्यम् । न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्राश्रयणात्पुंल्लिङ्गःसिद्ध इति वाच्यम्,अहः सर्वैकदेशेट त्यच्प्रत्ययस्याऽभावप्रसङ्गादिति चेत् । सत्यम् । अतएव हि भाष्यप्रयोगात्क्लीबत्वं नेत्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कालविभागे चानहोरात्राणाम् (1121) (576 लुटोनिषेधविधिसूत्रम्।। 3 । 3 । 2 । आ. 6) (5002 आक्षेपवार्तिकम्।। 1 ।।) - अनहोरात्राणामिति तद्विभागे प्रतिषेधः- (भाष्यम्) अनहोरात्राणामिति चेत्तद्विभागे प्रतिषेधो वक्तव्यः। योयं त्रिंशद्रात्र आगामी तस्य योवरोर्धमास इति। (5003 वार्तिकम्।।1 ।।) - तैश्च विभागे- (भाष्यम्)तैश्च विभागे प्रतिषेधो वक्तव्यः। योयं मास आगामी तस्य योवरः पञ्ञ्चदशरात्रः।। तद् द्वेष्यं विजानीयात् ‐ -अहोरात्राणामेवाहो रात्रैर्विभागे प्रतिषेधो भवतीति। तदाचार्यः सुहृद्भूत्वान्वाचष्टे अनहोरात्राणामिति तेषां विभागे तैश्च विभाग इति।। कालवि।। 137 ।।