॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|134
SK 2792
3|3|134
आशंसावचने लिङ्   🔊
SK 2792
सूत्रच्छेद:
आशंसावचने - सप्तम्येकवचनम् , लिङ् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आशंसा येन उच्यते तदाशंसावचनम्। तस्मिन्नुपपदे धातोर् लिङ् प्रत्ययो भवति भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तो ऽधीयीय। आशंसे अवकल्पये युक्तो ऽधीयीय। आशंसे क्षिप्रम् अधीयीय।
`आशंसे युक्तोऽधीयीय` इति।इङः लिङः सीयुट, उत्तमपुरुषैकवचनम्, इट्, `इटोऽत्` 3|4|106 इत्यद्भावः `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वाद्गुणाभावः, `लिङ सलोपोऽनन्तस्य` 7|2|79 इति सकारलोपः, धातोरियङ्, उपसर्गेण सह `अकः सर्वणे दीर्घः` 6|1|97 । `आशंसे क्षिप्रमधीयीय`इति। अत्र यद्यपि क्षिप्रवचनमुपपदमाशंसावचनमपि, तथापि परत्वाल्लिङेव भवति, न लृट। तस्य तु यत्राशंसावचनमुपपदं नास्ति सोऽवकाशः-- `क्षिप्रमध्येषामहे`इति॥
अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः---क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः---आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति---आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति---आशंसे क्षिप्रमधीयीयेति ॥
सिद्धान्तकौमुदी
आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥
आशंसावचने लिङ् - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।
आशंसावचने लिङ् - आशंसावचने । भूतवद्वर्तमानवत्प्रत्ययोरपवादः । न भूतवदिति । न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयेति । एवं प्रार्थये अधीयीय,इच्छामो वयवमधीयीमहीत्यादि ज्ञेयम् । क्षिप्रमिति । क्षिप्रयोगेऽपि परत्वाल्लिङिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!