॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|133
SK 2791
3|3|133
क्षिप्रवचने लृट्   🔊
SK 2791
सूत्रच्छेद:
क्षिप्रवचने - सप्तम्येकवचनम् , लृट् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आशंसायाम् इत् येव। क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट् प्रत्ययो भवति। भूतवच् च इत्यस्य अयम् अपवादः। उपाध्यायश्चेत् क्षिप्रम् आगमिष्यति, क्षिप्रं व्याकरणम् अध्येष्यामहे। वचनग्रहणं पर्यायार्थम्। क्षिप्रम्, शीघ्रम्, आशु, त्वरितम्, अध्येष्यामहे। न इति वक्तव्ये लृड्ग्रहणं लुटो ऽपि विषये यथा स्यात्। श्वः क्षिप्रम् अध्येष्यमहे।
`भूतवच्चेत्यचस्यायमपवादः`इति। न प्राप्ते भूतवच्चेत्यस्मिन्नस्यारम्भात्। अथ वचनग्रहणं किमर्थम्? यावता क्षिप्रे लृडित्येनेनैव सर्वं सिद्धमित्यत आह-- `वचनग्रहणं पर्यायार्थम्िति। असति हि वचनग्रहणे क्षिप्रशब्द एवोपपदे लृट् स्यात्, तस्मस्तु सति यावन्तः क्षिप्रवचनास्तेषु सर्वेषु भवति। अथ लृड्ग्रहणंकिमर्थम्, न क्षिप्रवचन इत्येवोच्येत, भूतवच्चेत्यस्यातिदेशस्य भविष्यत्कालविषयत्वात् तस्मिन् प्रतिषिदोधे `लट् शेषे च` 3|3|13 इत्येनेनैव सिद्धः? इत्याह--`नेति वक्तव्ये`इत्यादि। नेति वक्तव्ये यल्लृड्ग्रहणं क्रियते तस्यैतत् प्रयोजनम्-- लुटोऽपि विषये भविष्यदनद्यतने काले `लृड्? यथा स्यात्, अन्यथा, हि लृडपवादो लुडेव स्यात्॥
वचनग्रहणं पर्यायार्थमिति । असति तस्मिन् ठ्स्वं रूपं शब्दस्यऽ इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे ठ्लृट् शेषे चऽ इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह---नेति वक्तव्ये इत्यादि । नेत्युच्यमाने ठ्लृट् शेषे चऽ इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ॥
सिद्धान्तकौमुदी
क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥
क्षिप्रवचने लृट् - क्षिप्रवचने लृट् । वचनग्रहणात्क्षिप्रपर्याये इति लभ्यते । तदाह — क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः ।आशंसायां भूतवच्चे॑त्यस्यापवादः । ननुक्षिप्रवचनेने॑त्येतावतैव आशंसायां क्षिप्रपर्याये उपपदे भविष्यति न भूतवन्न वर्तमानवदिति लाभाल्लृङ्गहणमनर्थकमित्यत आह — नेति वक्तव्ये इति ।क्षिप्रवचने ने॑त्युक्तेसामान्यातिदेशे विशेषानतिदेशः इनि न्यायेन भविष्यत्सामान्ये विहितस्य लृट एव निषेधः स्यान्नतु लुटः, तस्यानद्यतनभविष्यद्विशेषविधानात् । शीघ्रं वप्स्याम इति । अनद्यतनत्वद्योताय आश्शब्दः । अत्र न लुडिति भावः ।
क्षिप्रवचने लृट् - क्षिप्रवचने । वचनग्रहणं स्वरूपग्रहमनिरासार्थम् । तदाह — क्षिप्रपर्याय इति । पूर्वविषय इति.आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्षिप्रवचने लृट् (1118) (476 लृड्विधिसूत्रम्।। 3 । 3 । 2 आ.3) (4087 वार्तिकम्।। 1 ।।) - क्षिप्रवचने लृट आशंसावचने लिङि्वप्रतिषेधेन- (भाष्यम्) क्षिप्रवचने लृट आशंसावचने लिङ्भवति विप्रतिषेधेन। क्षिप्रवचने लृड् भवतीत्यस्य अवकाशः ‐ -उपाध्यायश्चेदागतः क्षिप्रमध्येष्यामहे। आशंसावचने लिङ् भवतीत्यस्यावकाशः। उपाध्याश्चेदागतः आशंसे युक्तोधीयीय। इहोभयं प्राप्नोति ‐ -उपाध्यायश्चेदागतः आशंसे क्षिप्रमधीयीय। लिङ् भवति विप्रतिषेधेन।। (4088 वार्तिकम्।। 2 ।।) - अनिष्पन्ने निष्पन्नशब्दः शिष्योऽनिष्पन्नत्वात्- (भाष्यम्) अनिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः। किं कारणम्? अनिष्पन्नत्वात्। देवश्चेद् वृष्टो निष्पन्नाः शालयः। तत्र भवितव्यं संपत्स्यन्ते शालय इति।। (4089 वार्तिकम्।। 3 ।।) - सिद्धं तु भविष्यत्प्रतिषेधात्- (भाष्यम्) सिद्धमेतत्। कथम्? भविष्यत्प्रतिषेधात्। यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति।। कश्चिदाह ‐ ‐ देवश्चेद् वृष्टः संपत्स्यन्ते शालय इति। स उच्यते ‐ ‐ मैवं वोचः, संपन्नाः शालयः इत्येवं ब्रूहि।। (4090 वार्तिकम्।। 4 ।।) - हेतुभूतकालसंप्रेक्षितत्वाद्वा- (भाष्यम्) हेतुभूतकालसंप्रेक्षितत्वाद्वा पुनः सिद्धमेतत्। हेतुभूतकालं वर्षम्। वर्षकाला च क्रिया। (आक्षेपभाष्यम्) यदि तर्हि निष्पन्नोर्थः, किं निष्पन्नकार्याणि न क्रियन्ते? कानि? भोजनादीनि।। (समाधानभाष्यम्) अन्यदिदानीमेतदुच्यते ‐ ‐ किं निष्पन्नकार्याणि न क्रियन्ते इति। यत्तु तन्निष्पन्नोर्थो न निष्पन्न इति। स निष्पन्नोर्थः, अवश्यं खल्वपि कोष्ठगतेष्वपि शालिषु अवहननादीनि प्रतीक्ष्याणि।। एवमिहापि निष्पन्नोर्थः। अवश्यं तु जननादीनि प्रतीक्ष्याणि।। (4091 वार्तिकम्।। 5 ।।) - अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुर्विद्यमानत्वात्- (भाष्यम्) अस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः शासितव्याः। कूपोस्ति कूपो भविष्यति कूपो भविता कूपोभूत् कूप आसीत् कूपो बभूवेति। (प्रश्नभाष्यम्) कथं पुनर्ज्ञायते भवन्त्या एषोर्थ इति? कर्तुर्विद्यमानत्वात् । कर्तात्र विद्यते। कथं पुन हि कथं पुनर्ज्ञायते कर्तात्र विद्यत इति । कूपोनेन कादचिद् दृष्टः । न चास्य कंचिदप्यपायं पश्यति। स तु तत्र बुद्ध्या नित्यां सत्तामध्यवस्यति कूपोत्रास्तीति। (4-92 समाधानवार्तिकम्) सिद्धं तु यथास्वकालं समुच्चारणात्।। सिद्धमेतत् । कथम्। यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति । (आक्षेपभाष्यम्) कथं पुनर्ज्ञायते यथास्वकालमेता विभक्तयः स्वेषु स्वेषु कालेषु प्रयुज्यन्त इति। (4093 वार्तिकम् ।।7।।) अवात्वात्।। यन्न वा भाष्यन्ते। असिद्धविपर्यासश्च ।। असिद्ध विपर्यासः। न हीह कश्चित् कूपोस्ति इति प्रयोक्तव्ये कूपोभूदिति प्रयुङ्क्ते। किं पुनः कारणं न वा भाष्यन्ते असिद्ध विपर्यासः। इह हि किंचिदिन्द्रियकर्म किंचिद् बुद्धिकर्म । इन्द्रियकर्म समासादनम्, बुद्धिकर्म व्यवसायः। एहं हि कश्चित्पाटलिपुत्रं जिगमिषुराह ‐ योयमध्वा गन्तव्यः आपाटलिपुत्रात्। एतस्मिन्कूपो भविष्यति। अनद्यतने कूपो भवेतिति। समासाद्य कूपोस्ततीति समासाद्यातिक्रम्य कूपोभूदिति। समासाद्यातिक्रम्योषित्वा विस्मृत्य कूपो बभूवेति। तद्यदेन्द्रियकर्म तदैता विभक्तयः । यदा हि बुद्धिकर्म तदा वर्तमाना भविष्यति ।। क्षिप्रवचने।।133।।