॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|122
SK 3301
3|3|122
अध्यायन्यायोद्यावसंहाराधारावयाश्च   🔊
SK 3301
सूत्रच्छेद:
अध्याय-न्याय-उद्याव-संहार-आधार-आवया: - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , करणाधिकरणयो:  [3|3|117]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अध्यायाऽदयः शब्दाः घञन्ता निपात्यन्ते। पुंसि संज्ञायां घे प्राप्ते घञ् विधीयते। अहलन्तार्थ आरम्भः। अधीयते अस्मिनिति अध्यायः। नीयत अनेन इति न्यायः। उद्युवन्ति अस्मिनिति उद्यावः। संह्रियन्ते ऽनेन इति संहारः। आघ्रियन्ते अस्मिनिति आधारः। आवयन्ति अस्मिन्निति आवायः। चकारो ऽनुक्तसमुच्चयार्थः। अवहारः।
`अहलन्तार्थ आरम्भः`इति। हलन्तेभ्यः पूर्वसूत्रेणैव सिद्धत्वात्॥
आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति । ठ्घञ्विधाववहारावायानामुपसंख्यानम्ऽ वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥
सिद्धान्तकौमुदी
अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥अवहाराधारावायानामुपसङ्ख्यानम् (वार्तिकम्) ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अध्यायन्यायोद्यावसंहारा(धारावया)श्च - अवहारेत्यादि । वृत्तिकारस्त्वाधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणाऽवहारशब्दं संजग्राह, तदसंबद्धमिति स्पष्टमेव ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!