॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|117
SK 3293
3|3|117
करणाधिकरणयोश्च   🔊
SK 3293
सूत्रच्छेद:
करण-अधिकरणयोः - सप्तमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , करणाधिकरणयो:  [3|3|117]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
करणे ऽधिकरणे च कारके धातोः ल्युट् प्रत्ययो भवति। इध्मप्रव्रश्चनः। पलाशशातनः। अधिकरने गोदोहनी। सक्तुधानी।
`करणेऽधिकरणे च कारके` इत्यनेन करणाधिकरणयोः प्रत्ययार्थत्वं दर्शयति। अत्रोपपदे करणाधिकरणे कस्मान्न भवतः? `करणाधिकरणयोः`इत्यत एव निर्देशात्। करणाधिकरणशब्दौ हि ल्युडन्तौ करणाधिकरणसाधनौ च। तत्र दद्युपपदत्वमेतयोः स्यादेष निर्देशो नोपपद्यते। यद्येवम्, सति निर्देशे प्रत्ययविधानं च , सति च तस्मिन् निर्देश इतीतरेतराश्रयत्वं प्रसज्येत? न; नित्यत्वाच्छब्दानाम्। न ह्रपूर्वं किञ्चिदुत्पद्यते; शब्दानां नित्यत्वात्। सत्तामेव तु तेषामन्वाख्यानं क्रियते इति इतरेतराश्रयतायाः प्रसङ्गः। `इध्मप्रव्रश्चनः` इति। `ओव्रश्चूछेदने` (धातुपाठः-1292), इध्मानां प्रव्रश्चन इति षष्ठीसमासः। `पलाशशातनः` इति। `शद्लृ शातने` (धातुपाठः-1428), `हेतुमण्णिच्, `शदेरगतौ तः` 7|3|42 इति तत्वम्। `गोदोहनी` इति। `टिड्ढाणञ्` 4|1|15 इति ङीप्॥
करणे चाधिकरणे चाभिधेये इति । उपपदे तु करणाधिकरणे न भवतः, करणाधिकरणयोरित्यत एव निर्देशात् । क्रियतेऽनेनेति करणम्, अधिक्रियतेऽस्मिन्नित्वधिकरणमिति करणाधिकरणसाधनौ ह्यएतौ । यद्येवम्, सति निर्देशे प्रत्ययविधानम्, सति च प्रत्ययविधाने निर्देश । इतीतरेतराश्रयः प्राप्नोति ? न; नित्यात्वाच्छब्दानां नास्मान्निर्देशात्करणाधिकरणशब्दौस्तः । इध्मप्रव्रश्चन इति । कर्मणि, षष्ठयाः समासः । दात्रादिरुच्यते । पलाशशातन इति ॥ ठ्शद्लृ शातनेऽ हेतुमण्णिच, ठ्शदेरगतौ तःऽ इति तत्वम् । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स एवमुच्यते । गोदोहनी, सक्तुधानी पात्री । योगश्चायं येन नाप्राप्तिन्यायेन घञोऽपवादः । अजपौ स्त्रीप्रत्ययांश्च परत्वाद्वाधते । उक्तं हि ---ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति ॥
सिद्धान्तकौमुदी
ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
करणाधिकरणयोश्च - करणाऽधिकरणयोः । येन नाऽप्राप्तिन्यायेन घञोऽपवादोऽयमजपौस्त्रीप्रत्ययांश्च परत्वाद्बाधते । उक्तं हि — अजब्भ्यां स्त्रीखलनाः, स्त्रियाः खलनौ विप्रतिषेधेने॑ति । इध्मेति । इध्मानि प्रवृस्च्यन्ते येन, गौर्दुह्रते यस्यामिति विग्रहः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!