॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|110
SK 3287
3|3|110
विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च   🔊
SK 3287
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , आख्यान-परिप्रश्नयोः - सप्तमीद्विवचनम् , इञ् - सप्तमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19] , स्त्रियाम्  [3|3|94]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वं परिप्रश्नः, पश्चादाख्यानम्। सूत्रे ऽल्पाच्तरस्य पूर्वनिपातः। परिप्रश्ने आख्याने च गम्यमाने धतोः इञ् प्रत्ययो भवति, चकारात् ण्वुलपि। विभाषग्रहणात् परो ऽपि यः प्राप्नोति, सो ऽपि भवति। कां त्वं कारिमकार्षीः, कां कारिकाम् अकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, का कृतिमकार्षीः? सर्वां कारिमकार्षम्, सर्वां कारिकाम् अकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम्। कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम्। एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकाम् कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिम् इति द्रष्टव्यम्। आख्यानपरिप्रश्नयोः इति किम्? कृतिः। हृतिः।
इह सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात् परिप्रश्नस्य; वृत्तौ तु `परिप्रश्ने चाख्याने च गम्यमाने`इति पूर्व परिप्रश्नसोयपन्यासः,पश्चादाख्यानस्य; तत्र यश्चोदयेत्--किं कारणमेवं वृत्तौ विपर्ययः कृतः? इति, तं प्रत्याह-- `पूर्वं परिप्रश्नः`इत्यादि। परिप्रश्नपूर्वकं व्याख्यानं भवति, अतो वृत्तौ पूर्वं परिप्रश्नस्य तदुदाहरणस्य चोपन्यासः कृतः, पश्चादाख्यानस्य। क्रमव्यतिक्रमे प्रयोजनाभावादित्याभिप्रायः। सूत्रे तर्हि कस्मात् पूर्वं परिप्रश्नो न निर्दिष्टः, पश्चादाख्यानमित्याह-- `सूत्रे` इत्यादि। `अल्पाच्तरम्` 2|2|34 इति सूत्रेण द्वन्द्वे पदानां क्रमस्य नियत्वादल्पाच्तरस्याख्यानशब्दस्य सूत्रे पूर्वनिपातः कृत इति दर्शयति। `कां कारिम्िति। इञ्। `कां कारिकाम्` इति। ण्वुल्। `कां क्रियाम्` इति। `कृञः श च` 3|3|100 इति शः। `कां कृत्याम्` इति। तत्र चकारात् क्यप्। `कां कृतिम्` इति। योगविभगात् क्तिन् कृतः। `कां गणिम्` इति। इञ्। `गण संख्याने` (धातुपाठः-1853) चुरादावदन्तः पठते। `कां गणिकाम्` इति। ण्वुल्। `गणनाम्िति। युच्। एवम्--`कां पाचिम्` इत्यादि। `कां पाचिमकार्षीः`, `कां पाचिकाम्` , `कां पचाम्`। `कां याजिम्` , `कां याजिकाम्` इत्यादि, कामिष्टिम्। `कां पाठिम्` , `कां पाठिकाम्` `कां पठितिम्` इति॥
ननु पूर्वं परिप्रश्नः, पश्चादाख्यानं भवति, तत्कथं क्रमव्युदासेन सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात्परिप्रश्नस्य ? तत्राह---पूर्वं परिप्रश्न इत्यादि । सत्यं पूर्वं प्रश्नः पश्चादाख्यानमिति, सूत्रे तु लक्षणवशाद्विपर्यय आश्रित इत्यर्थः । स्वयं तु व्यत्स्यासेन व्याचक्षाणोऽर्थक्रमेण व्याचष्टे, उदाहरति च । कारिकामिति । ण्वुल् । क्रियां कृत्यामिति । ठ्कृञः श चऽ, चकारात्क्यप्च । कृतिमिति । योगविभागात् क्तिन् । गणिमिति । ठ्गण सङ्ख्यानेऽ चुरादिरदन्तः । गणनामिति । युच् । एवमित्यादि । कां पाचिकां, पचाम् । षित्वादङ् । पक्तिः---ठ्स्थागापापचऽ इति क्तिन् । कां याजि याजिकामिम् । कां पाठि पाठिकां पठितिम् । तितुत्रेष्वग्रहादीनामिति वचनादिट् ॥
सिद्धान्तकौमुदी
परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!