॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|3|107
SK 3284
3|3|107
ण्यासश्रन्थो युच्   🔊
SK 3284
सूत्रच्छेद:
णि-आस-श्रन्थः - पञ्चम्येकवचनम् , युच् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , भावे  [3|3|18] , अकर्तरि च कारके संज्ञायाम्  [3|3|19] , स्त्रियाम्  [3|3|94]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्याम् च स्त्रियाम् युच् प्रत्ययो भवति। अकारस्य अपवादः। कारणा। हारणा। आसना। श्रन्थना। कथम् आस्या? ऋहलोर् ण्यत् 3|1|124 भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्य एव उत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते श्रन्थ विमोचनप्रतिहर्षयोः इति , न चुरादिः श्रन्थ ग्रन्थ सन्दर्भे इति। ण्यन्तत्वेन एव सिद्धत्वात्। घट्टिवन्दिविधिभ्य उपसङ्ख्यानम्। घट्टना। वन्दना। वेदना। घट्टेः भौवादिकस्य ग्रहणं घट्ट चलने इति, न चुअरादिकस्य, तस्य णेः इत्येव सिद्धत्वात्। इषेरनिच्छार्थस्य युज् वक्तव्यः। अध्येषणा। अन्वेषना। परेर्वा। पर्येषना, परीष्टिः।
`अकारस्यापवादः` इति। `अ प्रत्ययात्` 3|3|102 , `गुरोश्च हलः` 3|3|103 इति द्वाभ्यां यथायोगं प्राप्तस्य। `कथमास्या` इति। न कथञ्चित्। अः स्यादासेः, अनेन सूत्रेण युज्वा भविष्यति, नान्य इति भावः। `ऋहलोण्र्यत्` 3|1|124 इत्यादि परिहारः। ननु च वासरूपविधिना ण्यत्प्रत्ययः स्यात्, स च वासरूपविधिः स्त्रियां न भवति, `अस्त्रियाम्` 3|1|94 इति प्रतिषेधात्, तत् किमुच्यते-- `ऋहलोण्र्यत्` 3|1|124 इति ण्यद्भविष्य(ती)ति? इत्यत आह-- `वासरूप` इत्यादि। एध चार्थस्तत्रैव प्रतिपादितः।`उपसंख्यानम्` इति। प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्--- वक्ष्यमाणं बहुलग्रहणमुभयोरपि योगयोः शेषः, तेन घट्टिप्रभृतिभ्यो भविष्यीति। `वक्तव्यः`इति। व्याख्येय इत्यर्थः। व्याख्यानं तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। `अन्वेषणा` इति। `इष गतौ` (धातुपाठः-1127), `इष आभीक्ष्ण्ये` (? ) इति वा॥
ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह---वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः; ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेतेः क्तिनो निवृत्यर्थं वचनम्; संवितिरिति दर्शनात् । अन्वेषणेति । ठिष आभीक्ष्ण्येऽ ठिषगतौऽ इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, ठुदातःऽ इति हि वर्तते तत्सामर्थ्यादन्तोदातत्वं भविष्यति; प्रत्ययस्वरैणैवाद्यौदातत्वसिद्धेः ॥
सिद्धान्तकौमुदी
अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥घट्टिवन्दिविदिभ्यश्चेति वाच्यम् (वार्तिकम्) ॥ घट्टना । वन्दना । वेदना ॥इषेरनिच्छार्थस्य (वार्तिकम्) ॥ अन्वेषणा ॥परेर्वा (वार्तिकम्) ॥ पर्येषणा । परीष्टिः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ण्यासश्रन्थो युच् - आसनेति । आस्यतेऽस्यामिति विग्रहः ।ऋहलोण्र्य॑दिति ण्यत्प्रत्यये त्वास्या । न च स्त्रीप्रत्यये वाऽसरूपविधिर्नेति शङ्क्यम्, अपवादस्य युचः स्त्रीप्करणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात् । घट्टिवन्दि । विदिर्लाभार्थो गृह्रते । ज्ञानार्थस्य तु संवित्तिः । इषेरिति । अनिच्छार्थस्य युच् । इच्छार्थस्य् त्विषेरिच्छेत्येव ।
लघुसिद्धान्तकौमुदी
अकारस्यापवादः। कारणा। हारणा॥
महाभाष्यम्
ण्यासश्रन्थो युच् (1092) (561 युच्प्रत्ययविधिसूत्रम्।। 3 । 3 । 1 आदृ 30) (आक्षेपभाष्यम्) किमर्थश्चकारः।। (समाधानभाष्यम्) स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्। (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। उदात्त इति वर्तते भुवीरा उदात्तः इति।। (आक्षेपभाष्यम्) यद्युदात्त इति वर्तते ‐ ‐ व्रजयजोर्भावे क्यप् किमर्थः। पकारः।। (समाधानभाष्यम्) तुगर्थः। ह्रस्वस्य पिति कृतीति।। (आक्षेपभाष्यम्) उदात्त इत्येव हि वर्तते।। एवमपि कुत एतत्तदन्तस्योदात्तत्वं भविष्यति,न पुनरादेरिति। (समाधानभाष्यम्) उदात्त इत्यनुवर्तनसार्मथ्यात् यस्य अप्राप्तः स्वरस्तस्य भवति। कस्य चाप्राप्तः। अन्तस्य।। (प्रयोजनान्तरभाष्यम्) सामान्यग्रहणाविघातार्थस्तर्हि। क्व समामान्यग्रहणाविघातार्थेनार्थः? युवोरनाकाविति। (प्रयोजनान्तरनिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् ‐ सिद्धं तु युवोरनुनासिकवचनादिदि।। (4058 वार्तिकम्।। 1 ।।) - युच्प्रकरणे घटि्टवन्दिविदिभ्य उपसंख्यानम्- (भाष्यम्) युच्प्रकरणे घटि्ट्वन्दिविदिभ्य उपसंख्यानं कर्तव्यम्। घट्टना। वन्दना। वेदना।। (4059 वार्तिकम्।। 2 ।।) - इषेरनिच्छार्थस्य - (भाष्यम्) इषेरनिच्छार्थस्येति वक्तव्यम्। अन्विष्यते अन्वेषणा।। (4060 वार्तिकम्।। 3 ।।) - परेर्वा- (भाष्यम्) परेर्वेति वक्तव्यम्। अन्यां परीष्टिं चर। अन्यां पर्येषणां चर।। ण्यासश्रन्थो।। 107 ।।