Page loading... Please wait.
3|3|103 - गुरोश्च हलः
॥ तस्मै पाणिनये नमः ॥
3|3|103
SK 3280
गुरोश्च हलः   🔊
सूत्रच्छेदः
गुरोः (पञ्चम्येकवचनम्) , च (अव्ययम्) , हलः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भावे  3|3|18 अकर्तरि च कारके संज्ञायाम्  3|3|19 स्त्रियाम्  3|3|94
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हलन्तो यो धातुः गुरुमान्, ततः स्त्रियाम् अकारः प्रत्ययो भवति। क्तिनो ऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोः इति किम्? भक्तिः। हलः इति किम्? नीतिः।
`धातोः 3|1|91 इत्यधिकाराद्गुरुग्रहणं हल्ग्रहणं च तस्यैव विशेषणं विज्ञायत इत्याह-- `गुरुमान् हलन्तो यो धातुः` इत्यादि। कथं पुनर्गुरोरित्युच्यमाने गुरुमान् धातुर्लभ्यते? सामथ्र्यात्। न हि हलन्तस्य धातोः कस्यचिद्गुरुसंज्ञा विहिता, उच्यते चेदं गुरोरिति, तत्र सामथ्र्याद्गुरुमान् धातुर्गुरुसंज्ञाकेनाभेदोपचारं कृत्वा गुरुशब्देनोक्त इति गम्यते। इष्यते ह्रभेदोपचाराद्विनापि मतुपा तद्वतोरभिधाम्-- यथा-- शुक्लः पट इति। अथ रुधादिभ्य एव यथा स्यात्, कुडिप्रभृतीभ्यो मा भूदित्येवमर्थो विपर्ययः कस्मान्न विज्ञायते `गुर्वन्तो यो धातुर्हल्वान्` इति? ज्ञापकात्, यदयं `गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ चेष्टायामनध्वनि` 2|3|12 इत्यप्रत्ययान्तस्य चेष्टाशब्दस्य `शकि शङ्गायाम्` (धातुपाठः-86) इति च शङ्काशब्दस्य निर्देशं करोति, ततो ज्ञायते-- नात्र विपर्यय इति। विपर्यये हि न हि चेष्टेति गुर्वन्तः, नापि शङ्केति। `कुण्डा` इत्यादि। `कुडि दाहे` (धातुपाठः-270), `हुडि सङ्घाते` (धातुपाठः-269), `ईह चेष्टायाम्` (धातुपाठः-632) `ऊह वितर्के` (धातुपाठः-648)-- इत्येषां रूपाणि॥
प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह---हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह---गुरुमानिति । विपर्ययस्तु न न भवति---गुर्वन्तो यो धातुर्हल्वानिति; ठ्चेष्टायामनध्वनिऽ ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति । ठ्कुडि दाहेऽ, ठ्हुडि संघातेऽ ॥
सिद्धान्तकौमुदी
गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥निष्ठायां सेट इति वक्तव्यम् (वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-(कौमुदी-3163) इति नेट् । दीप्तिः ॥तितुत्रेष्वग्रहादीनामिति वाच्यम् (वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
गुरोश्च हलः - गुरोश्च । धातोरित्यनुत्यवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते । न चाऽयं गुरुरिति संभवति । अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते । तदाह — गुरुमत इति । ननु विपरीतमस्तुगुर्वन्ताद्धल॑ इति, तादृशस्यापि धातोर्डुक्रीञित्यादेः सत्त्वादिति चेन्मैवम् ।चेष्टायामनध्वनि॑आशंसायां भूतवच्चे॑ति निर्देशेन विपरीतशङ्काया अप्रवृत्तेः ।
लघुसिद्धान्तकौमुदी
गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.