Page loading... Please wait.
3|2|94 - दृशेः क्वनिप्‌
॥ तस्मै पाणिनये नमः ॥
3|2|94
SK 3004
दृशेः क्वनिप्‌   🔊
सूत्रच्छेदः
दृशेः (पञ्चम्येकवचनम्) , क्वनिप् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मणि इत्येव। दृशेः धातोः कर्मणि उपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। अन्येभ्यो ऽपि दृश्यन्ते 3|2|75 इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तरनिवृत्त्यर्थम्।
`प्रत्ययान्तरनिवृत्यर्थम्` इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव-- परलोकं दृष्टवानिति। अत्र च कारणं `ब्राहृभ्रूण` 3|2|87 सूत्र एव उक्तम्॥
द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव---पलोकं द्दष्टवानिति॥
सिद्धान्तकौमुदी
कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥
दृशेः क्वनिप् - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् ।
दृशेः क्वनिप् - दृशेः क्वनिप् ।अन्येब्योऽपि दृश्यन्ते॑ इति सिद्धे नियमार्थमिदं — क्वनिबेव यथास्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय॑ इति । सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव — पारं दृष्टवानिति । एवं स्थितेविआदृआनयना वयमेवे॑त्यादौ विआं पश्यन्ति विआदृआआनि, तानि नयनानि येषां ते विआदृआनयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक् ।
लघुसिद्धान्तकौमुदी
कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.