Page loading... Please wait.
3|2|90 - सोमे सुञः
॥ तस्मै पाणिनये नमः ॥
3|2|90
SK 3000
सोमे सुञः   🔊
सूत्रच्छेदः
सोमे (सप्तम्येकवचनम्) , सुञः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मणि इति वरते। सोमे कर्मणि उपपदे सुनोतेर् धातोः क्विप् प्रत्ययो भवति। सोमसुत्, सोमसुतौ, सोमसुतः। अयम् अपि नियमार्थ आरम्भः। चतुर्विधश्च अत्र नियमः इष्यते, धातुकालौपपदप्रत्ययविषयः।
`धातुकालोपपदप्रत्यय विषयः`इति। पूर्ववद्बहुव्रीहिः। कालादिनियमोऽन्यपदार्थः। तत्र कालनियमः-- सोमे सुनोतेः क्विबेव भूते, नान्यः प्रत्ययः; न हि-- सोमं सुतवान् सोमसाव इति। धातुनियमः--सोम एव सुनोतेः क्विप्, नान्यस्मिन्नुपपद इति;इह न भवति--सुरां सुतवान् सुरासुदिति। उपपनियमः--सोमे सुनोतेरेव, नान्यस्माद्धातोरितित;इह न भवति क्विप्-- सोमं क्रीतवानिति , सोमक्राय इत्यणेव तु भवति। प्रत्ययनियमः-- सोमे सुनोतेर्भूत एव क्विप्, नान्यत्रेति;तेन सोमं सुनोति, सोष्यति वेत्यर्थविवक्षायां सोमसुदिति न भवति॥
सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥
सिद्धान्तकौमुदी
सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥
सोमे सुञः - समो सुञः । सोमे कर्मण्युपपदे भूते सुनोतेः क्विबित्यर्थः । चतुर्विध इति । पूर्ववद्व्याख्येयम् । एवमिति ।अग्नौ चे॑रित्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः ।
सोमे सुञः - सोमे सुञः । इहापि चतुर्विधो नियम इति वृत्तिः । एवमुत्तरसूत्रेऽपि । तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान् सोमसावः, अग्न चितवान् अग्निचाय इत्यण्न भवति । सुनोतेः सोम एव उपपदे नियतत्वाच्चिनोतेस्त्वग्नावेवोपपदे नियत्वात् सुरां सुतवान् सुरासुत्, इष्टकाश्रितवानिष्टकाचिदिति न भवति, किं तु सुरासावः इष्टकाचाय इत्यणेव भवति । सोमस्य सुनोतावेव धातोर्नियतत्वात्, अग्नेस्तु चिनोतावेव नियतत्वात् — सोमं क्रीतवान् सोमकीः, अग्न भृतवान् अग्निभृदिति क्वब्नि भवति, किं तुसोमक्रायः अग्निभार इत्यणेव भवति । भूत एव क्विपो नियतत्वात्सोमं सुनोति सोष्यति वेत्यर्थे क्विब्न भवति । तथा अग्न चिनोति चेष्यति वेत्यर्थे क्विबभावः, किंत्वणेव । कर्मणीनि । कुत्सितग्रहणमिति । एतच्च वार्तिकं पुनः कर्मग्रहणसामथ्र्याल्लभ्यते, यत्कर्म क्रियया संबध्यमानं कर्तृकुत्सामावहति तत्रेत्यर्थः । सोमादयश्च विक्रीयमाणाः शास्त्रे प्रतिषेधात्कुत्सावहाः । कुत्सितग्रहणान्नेह, -धान्यविक्रायः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.