`सुशब्दं वर्जयित्वा`इति। तस्यासत्त्ववचनात् कर्मत्वानुपपत्तेः। `स्वादिषु कर्मसु` इति। बाहुल्यमाश्रित्योक्तम्, यथा-- `ब्राआहृणग्रामः, भट्टग्रामः` इति। कुत एतत्? सुशब्दं वर्जयित्वेत्यनन्तराणामेवाभिधानात्। `त्रिविधश्चात्र नियमः` इति। एतदपि बहुलग्रहणानुवृत्तेर्लभ्यते। `कालोपपदप्रत्यय{नियमः-काशिका}विषयः` इति। कालोपपदप्रत्यया विषया यस्य स तथोक्तः। स पुनः कालनियमः, उपपदनियमः, प्रत्ययनियमश्चेति। तत्र कालनियमः--स्वादिषु कृञो भूत एव क्विबेव बवति, नान्यः प्रत्यय इति; न भवति-- कर्म कृतवान् कर्मकार इति। उपपदनियमः--स्वादिषु कृञ एव, नान्यस्माद्धातोरिति; न हि भवति क्विप्-- मन्त्रमधीतवानिति, अणेव भवति मन्त्राध्याय इति। प्रत्ययनियमः-- स्वादिषु कृञो भूत एव क्विप्, न वत्र्तमाने, भविष्यत् इवा, तेन मन्त्रं करोति, मन्त्रं करिष्यतीति वेत्यर्थविवक्षायां मन्त्रकृदिति न भवति। `शास्त्रकृत्` इति। `क्विप् च`
3|2|76 इति क्विप्॥