Page loading... Please wait.
3|2|88 - बहुलं छन्दसि
॥ तस्मै पाणिनये नमः ॥
3|2|88
SK 3419
बहुलं छन्दसि   🔊
सूत्रच्छेदः
बहुलम् (प्रथमैकवचनम्) , छन्दसि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 भूते  3|2|84
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पूर्वेण नियमादप्राप्तः क्विप् प्रत्ययः विधीयते। छन्दसि विषये उपपदन्तरेष्वपि हन्तेर् बहुलं क्विप् प्रत्ययो भवति। मतृहा सप्तमं नरकं व्रजेत्। पितृहा। न च भवति। मातृघातः। पितृघातः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट्--(कौमुदी-3093) । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा--(कौमुदी-3094) । क्वसुश्च (कौमुदी-3095) । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवाँ अघायुः (यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युः) । णेश्छन्दसि--(कौमुदी-3117) । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च--(कौमुदी-3118) । अस्मात्केवलात्प्राग्वत् । भविष्णुः ॥ ।छन्दसि परेच्छायां क्यच उपसंख्यानम् (वार्तिकम्) ॥ क्याच्छन्दसि--(कौमुदी-3150) । उप्रत्ययः स्यात् । अघायुः ॥ ।एरजधिकारे जवसवौ छन्दसि वाच्यौ (वार्तिकम्) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.