Page loading... Please wait.
3|2|81 - बहुलमाभीक्ष्ण्ये
॥ तस्मै पाणिनये नमः ॥
3|2|81
SK 2991
बहुलमाभीक्ष्ण्ये   🔊
सूत्रच्छेदः
बहुलम् (प्रथमैकवचनम्) , आभीक्ष्ण्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति। अभीक्ष्ण्यं पौनःपुन्यम्। तात्पर्यम् आसेवैव, ताच्छील्यादन्यत्। कषायपायिणो गन्धाराः। क्षीरपायिणः उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणत् कुल्माषखादः इत्यत्र न भवति।
`आभीक्ष्ण्यं पौनःपुन्यम्` इति। पुनः पुनर्भावः पौनःपुन्यमिति, अव्ययानां भमात्रे टिलोपः। `तात्पर्यमासेवैव` इति। तदेवाभीक्ष्ण्यम्। पर्यायान्तराभ्यां स्पष्टीकरोति-- `{ताच्छील्यादन्यत्--काशिका, पदमंजरी च।} ताच्छील्यादन्यः` इति। एतेन `सुप्यजातौ` 3|2|78 इत्यादिनाऽ‌ऽभीक्ष्ण्ये न सिध्यतीत्यसामथ्र्यमुद्भावयन्नस्य योगस्य फलं दर्शयति-- `कषायपायिणः`इति। यत्र देशे कषायं पुनः पुनः पिबतामारोग्यं भवति, अतस्ते कषायं पिबन्तीति, न तु ताच्छील्यात्। `क्षीरपायिणः`इति। तेऽपि तथोक्तादेव कारणात् पानान्तराभावाद्वा ताच्छील्याभावेऽप्यगत्या क्षीरं पिबन्ति। `सौवीरपायिणः` इति। अत्राप्येतदेवानन्तरोक्तं पुनः पुनः सौवीरपानस्य कारणम्। सर्वत्र `आतो युक् चिण्कृतोः` 7|3|33 इति युक्। `प्रातिपदिकान्तनुम्` 8|4|11 इत्यादिना णत्वम्। `कुल्माषखादः` इति। `कर्मण्यण्` 3|2|1
बहुलमाभीक्ष्ण्यो॥ आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेनठ्सुप्यजातौऽ इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिःउताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु ठातो युक् चिण्कृतोःऽ इति युक्, ठ्प्रातिपदिकान्तनुम्विभक्तिषु चऽ इति णत्वम्॥
सिद्धान्तकौमुदी
पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥
बहुलमाभीक्ष्ण्ये - बहुलमाभीक्ष्ण्ये । जातावप्युपपदे प्राप्त्यर्थमिदम् । तद्ध्वनयन्नुदाहरति — क्षीरपायिण इति ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.