॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|69
SK 2978
3|2|69
क्रव्ये च   🔊
SK 2978
सूत्रच्छेद:
क्रव्ये - सप्तम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
क्रव्यशब्द उपपदे अदेर् धातोः विट् प्रत्ययो भवति। क्रव्यमत्ति क्रव्यात्। पूर्वेण एव सिद्धे वचनम् असरूपबाधनार्थम्। तेन अण् न भवति। कथं तर्हि क्रव्यादः? कृत्तविकृत्तशब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात् क्रव्यभावः। कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
क्रव्ये च॥ वाऽसरूपबाधनार्थमिति। तथा च वार्तिकम्----अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्यर्थमिति। कथं तर्हीति। यदि वाऽसरूपविधिबाधनार्थमिति भावः। कृतविकृतेति। कृतं च्छिन्नं तदेव पुनर्विशेषतः कृतमिति ठ्पूर्वकालऽ इति समासः, तस्य पक्वशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः। पृषोदरादित्वात्क्रव्यभाव इति। यद्येवम्, क्रव्याद इत्यस्य रूपस्यावर्जनीयत्वादलं वाऽसरूपबाधनार्थेनानेन वचनेन, वार्तिकविरोधश्चैवं वदत इत्याशङ्क्याह----कृतविकृतेत्यादि। अर्थमेदादुभयमपि नास्ति किलेत्ययमभिप्रायः॥
सिद्धान्तकौमुदी
अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥
क्रव्ये च - क्रव्ये च । अदेर्विडिति । शेषपूरणमिदम् । अण्बाधनार्थमिति । क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः । कथं तर्हीति ।क्रव्ये उपपदे अदेर्विडेवे॑ति नियमादणोऽसंभवादित्याक्षेपः । समाधत्ते — पक्वमांसशब्ददिति । तर्हि "पक्वमांसाद" इति स्यादित्यत आह — उपपस्य क्रव्यादेश इति । कुत इत्येत आह — पृषोदरादित्वादिति ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्रव्ये च (836) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते, न अदोनन्ने इत्येव सिद्धम्। (समाधानभाष्यम्) न सिध्यति। छन्दसीति वर्तते। भाषार्थोऽयमारम्भः।। (समाधानबाधकभाष्यम्) पूर्वस्मिन्नेव योगे छन्दोग्रहणं निवृत्तम्। तच्चावश्यं निर्वत्यम्। आमादित्येवमर्थम्।। (समाधानभाष्यम्) अत उत्तरं पठति। (2058 समाधानवार्तिकम्।। 1 ।।) - अदोनन्नेक्रव्यग्रहणं वासरूपनिवृत्यर्थम्- (भाष्यम्) अदोनन्ने क्रव्यग्रहणं क्रियते वासरूपो मा भूदिति।। अदोन।। क्रव्ये च ।। 69।।