Page loading... Please wait.
3|2|66 - हव्येऽनन्तः पादम्
॥ तस्मै पाणिनये नमः ॥
3|2|66
SK 3412
हव्येऽनन्तः पादम्   🔊
सूत्रच्छेदः
हव्येः (सप्तम्येकवचनम्) , अनन्तःपादम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हव्यशब्दे उपपदे छन्दसि विषये वहेर् धातोः ञ्युट् प्रत्ययो भवति, अनन्तःपादं चेद् वहिर्वर्तते। अग्निश्च हव्यवाहनः अनन्तःपादम् इति किम्? हव्यवाडग्निरजरः पिता नः।
`अनन्तःपादम्` इति। अन्तः शब्दो मध्यशब्देन समानार्थः। अन्तःपादमिति पादस्य मध्य इत्यर्थ-। `अव्ययं विभक्ति` 2|1|6 इत्यादिना विभक्त्यर्थेऽव्ययीभावः-- न अन्तःपादमनन्तःपादमिति। एतच्च वहेः प्रकृतत्वात् तस्यैव विशेषमं विज्ञायत इत्यत आह-- `अनन्तःपादञ्चेद्वहिर्वत्र्तते`इति। छन्दसीत्यनुवृत्तेः पादशब्द ऋक्पादं बोधयति। ऋक्पादमध्ये वहिर्न वत्र्तत इत्यर्थः। प्रत्युदाहरणे पादमध्ये वहिर्वत्र्तत इति तेन `वहश्च` 3|2|64 इति ण्विरेव भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च (कौमुदी-3410) इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.