॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|6
SK 2920
3|2|6
प्रे दाज्ञः   🔊
SK 2920
सूत्रच्छेद:
प्रे - सप्तम्येकवचनम् , दाज्ञः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सोपसर्गार्थ आरम्भः। ददातेः जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्रे इति किम्? गोसन्दायः।
`सोपसर्गार्थं आरम्भः` इति। अनुपसर्गात् `आतोऽनुपसर्गे कः` 3|2|3 इत्येवं सिद्धत्वात्। `ददातेः` इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। `प्रेणोपसृष्टात्` इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे `प्रे` इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। `पथिप्रज्ञः` इति। पन्थानं प्रजानातीत्यर्थः॥
प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्। ठ्गामादाग्रहणेष्वविशेषःऽ इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति; ठ्खनो घ चऽ ठ्हनश्च वधःऽ इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥
सिद्धान्तकौमुदी
दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥
प्रे दाज्ञः - प्रे दाज्ञः । "प्रे" इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः ।
प्रे दाज्ञः - प्रे दा । गामादाग्रहणेष्वविशेषादाह — दारूपादित । पथिप्रज्ञ इति । पन्थानं प्रकर्षेण जानातीत्यर्थः । प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सतिआतोऽनुपसर्गे॑ इत्यनेनापि न भवतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!