Page loading... Please wait.
3|2|54 - शक्तौ हस्तिकपाटयोः
॥ तस्मै पाणिनये नमः ॥
3|2|54
SK 2971
शक्तौ हस्तिकपाटयोः   🔊
सूत्रच्छेदः
शक्तौ (सप्तम्येकवचनम्) , हस्ति-कपाटयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक् प्रत्ययो भवति। मनुष्यकर्तृकार्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः। कं पाटयति प्रविशत इति कपाटघ्नश्चौरः। शक्तौ इति किम्? विषेण हस्तिनं हन्ति हस्तिघातः।
`शक्तौ गम्यमानायाम्` इति। अनेनोपपदत्वं शक्तेर्निराकरोति। `हस्तिकपाटयोः कर्मणीरुपपदयोः`इत्यनेनापि हस्तिकपाटयोः प्रत्ययार्थविशेषणम्। अथैवं कस्मान्न विज्ञायते-- शक्तावुपपदे हस्तिकपाटयोः कत्र्रोरिति? आरम्भसामथ्र्यादेव हि विज्ञायमाने हस्तिकपाटयोर्मनुष्यकर्त्तृके धात्वर्थे हन्तिर्वत्र्तते। तथा च पूर्वेणैव सिद्धेऽस्यारम्भवैयथ्र्यं स्यात्। उपपदत्वे तु तयोः शक्तौ गम्यमानायां मनुष्ये कत्र्तरि विज्ञायत इति न भवत्येष दोषः।`विशेष हस्तिनं हन्ति`इति। विषेणेत्यशक्तिकत्वं दर्शयति। यो हि स्वयं हन्तुं न समर्थः स विषादिनोपायान्तरेण हन्ति॥
शक्तौ हस्तिकपाटयोः॥ विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपतेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति----हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते। कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्। ठ्कवङ् चोष्णोऽ इति योगविभागात्कोः कवादेशः॥
सिद्धान्तकौमुदी
हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥
शक्तौ हस्तिकपाटयोः - शक्तौ हस्तिकवाटयोः । हस्तिघ्न इति । हस्तिनं हन्तुं शक्त इत्यर्थः । एवं कवाटघ्नः ।
शक्तौ हस्तिकपाटयोः - शक्तौ हस्ति । शक्तौ किम् । विषेण हस्तिनं हन्तीति हस्तिघातः । यद्यपीह शक्तिरस्ति, अशक्तस्य कर्तृत्वानुपपत्तेस्तथापि शक्तिग्रहणसामथ्र्यात्प्रकर्षो विज्ञायते, तेन स्वबलेनैव हन्तुं या शक्तिः सा गृह्रते । कपाटघ्न इति । कं = शिरः पाटयति प्रविशत इति कपाटम् । पाठान्तरे तु अटतेः पचाद्यच् ।कवं चोष्णे॑ इत्यत्र योगविभागात्कोः कवादेश इति हरदत्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.