॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|49
SK 2966
3|2|49
आशिषि हनः   🔊
SK 2966
सूत्रच्छेद:
आशिषि - सप्तम्येकवचनम् , हनः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ड इति वर्तते। आशिषि गम्यमानायां हन्तेर् धातोः कर्मण्युपपदे डप्रययो भवति। तिमिं वध्यात् तिमिहः। शत्रुहः। आशिषि इति किम्? शत्रुघातः। दारावाहनो ऽणन्तस्य च टः संज्ञायाम्। दारावुपपदे आङ्पूर्वाद् हन्तेः अण् प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, संज्ञायां विषये। दारु आहन्ति दार्वाघाटः। चारौ वा। आङ्पूर्वात् हन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः। चार्वाघाटः, चार्वाद्घातः। कर्मणि समि च। कर्मण्युपपदे सम्पूर्वात् हन्तेः धातोः अण् प्रत्ययो भवति, अन्तस्य च वा टकारदेशः। वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः। पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः।
`आशिषि` इति। प्रत्ययार्थमेतत्। तस्मिन् कत्र्तरि प्रत्ययो भवति यस्मिन् विधीयमान आशीर्गम्यते। `तिमिं वध्यात्` इति। आशीर्लिङ। प्रयोगवतो वाक्यस्योपन्यासस्तु समानार्थत्वात् तिमिहशब्दस्य प्रख्यानार्थः।`दारावाहन` इत्यादि। टकारादेश एवोपसंख्यायते। अण्प्रत्ययस्तु `कर्मण्यण्` 3|2|1 इत्यनेनैव सिद्धः। अथान्तग्रहणं किमर्थम्, यावता `अलोऽन्त्यस्य` 1|1|52 इत्यन्तस्य भविष्यतीति? नच षष्ठीनिर्दिष्टस्यालोन्त्यविषयो भवन्ति। न चेह हन्तेः षष्ठआ निर्देशः, किं तर्हि? पञ्चम्या। नन्वर्थाद्विभक्तिविपरिणामो भविष्यति-- हन इत्यस्याः षष्ठी सम्पद्यते? एवं तर्हि विस्पष्टार्थमन्तग्रहणम्। `दार्वाहन्ति` इति।दारुशब्दोऽत्र द्वितीयान्तः। `स्वमोर्न्पुंसकात्` 7|1|23 इति लुप्तत्वान्न द्वितीया श्रूयते।`चारौ वा` इति।अत्राऽप्यादेशो विकल्पेन विधीयते। अण् तु `कर्मण्यण्` 3|2|1 इति नित्यमेव सिद्धः। `चार्वाघाटः`इति। `हो हन्तेर्ञ्णिन्नेषु` इति कुत्वम्। `हनस्तोऽचिण्णलोः` 7|3|32 इति तत्वम्। `कर्मणि समि चि` इत्येतद्वाक्यं कर्मण्युपपद इत्यस्यैव विशेषणम्॥
आशिषि हनः॥ दाराविति। दारुशब्द इत्यर्थः। शब्दापेक्षया पुंल्लिङ्गः,टविधानार्थ वचनम्, अण् ठ्कर्मण्यण्ऽ इत्येव सिद्धः। अन्तग्रहणं विस्पष्टार्थम्, ठलोऽन्त्यस्यऽ इत्येव सिद्धम्॥
सिद्धान्तकौमुदी
शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ॥ ।दारावाहनोऽणन्तस्य च टः संज्ञायाम् (वार्तिकम्) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ॥ ।चारौ वा (वार्तिकम्) ॥ चार्वाघाटः ॥ ।कर्मणि समि च (वार्तिकम्) ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । परसङ्घातः ।
आशिषि हनः - आशिषि हनः । कर्मण्युपपदे हन्तेर्डः स्यादाशिषि गम्यायामित्यर्थः । शत्रुघात इति । आसीरभावाड्डाऽभावे अण् । "हनस्त" इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः, अण्, अन्तस्येति च्छेदः । अण्संनियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेरण्, अन्तस्य टो वा स्यादित्यर्थः । कर्मणणि समि चेति । वार्तिकमिदम् । उक्तं वेति । अण्, अन्तस्य ट इत्यर्थः । चारावित्यस्यानुवृत्तिनिवृत्तये कर्मणीत्युक्तिः ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आशिषि हनः (816) (486 डप्रत्ययविधिसूत्रम्।। 3 । 2 । 1 आ.18 सू.) (2042 अन्प्रत्ययादिविधिवार्तिकम्।। 1 ।।) - दारावुपपदे आङ्पूर्वाद्धन्तेरण्वक्तव्यः। अन्त्यस्य च टो वक्तव्यः। दार्वाघाटस्ते वनस्पतीनाम्।। (2043 वार्तिकम्।। 2 ।।) - चारौ वा - (भाष्यम्) चारावुपपदे आङ्पूर्वाद्धन्तेरण्वक्तव्यः। अन्त्यस्य च टो वा वक्तव्यः। वर्णसंघाटः वर्णसंघातः। पदसंघाटः पदसंघातः।। आशिषि।। 49 ।।