॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|45
SK 2962
3|2|45
आशिते भुवः करणभावयोः   🔊
SK 2962
सूत्रच्छेद:
आशिते - सप्तम्येकवचनम् , भुवः - पञ्चम्येकवचनम् , करण-भावयोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अत्र सुपि इत्युपतिष्ठते। आशितशब्दे सुबन्ते उपपदे भवतेर् धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवति अनेन आशितम्भव ओदनः। भावे आशितस्य भवनम् आशितम्भवं वर्तते।
अत्र सुपीत्युपतिष्ठते, न कर्मणीति; भवतेरकर्मकत्वात्। `आशितशब्दे सुबन्ते` इत्यादि। अथ विपर्ययः कस्मान्न वति, करणभावयोरुपपदयोराशिते प्रत्ययार्थ इति? असम्भवात्। आशित इत्यश्नातेः कत्र्तोच्यते, तस्य भवतिना सम्बन्धो नोपपद्यते। न हि योऽश्नातेः कत्र्ता स भवतेः प्रत्ययार्थो भवतुमुत्सहते। तस्मादाशितशब्दस्योपपदत्वम्, इतरयोस्तु प्रत्ययार्थत्वम्। एवञ्च घञ्ल्युटोरपवादो भवति। वाऽसरूपविधिना ल्युडपि भवत्येव-- आशितभवन ओदन इति। घञस्तु स्वरूपत्वाद्बाधख एव॥।
आशिते भुवः करणभावयोः॥ अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् ठश भोजनेऽ इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते---आशितः कर्तेति, यस्याद्यौदातत्वं विधास्यते। यस्तु ठ्ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्यौदातत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्तोच्यते, ठ्गतिबुद्धिप्रत्यवसानार्थऽइति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्यौदातस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते॥
सिद्धान्तकौमुदी
आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥
आशिते भुवः करणभावयोः - #आशिते । करणे उदाहरति — आशितो भवत्यनेनेति । भावे उदाहरति — आशितस्य भवनमिति ।
आशिते भुवः करणभावयोः - आशितंभव इति । यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते । इह वासरूपविधिना ल्युडपि । [आशित भवनः ।भावे]-आशितभवनम् । घञ् तु बाध्यत एव, सरूपत्वादित्याहुः । नचाऽत्र क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः । यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः । इह तु ल्युटोऽप्यपवादः खच् । अत्र वासरूपन्यायो निर्बाध एव । एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!