`शास्त्रितः` इति। शास्त्रे कृत इति विगृह्र शास्त्रशब्दात् प्रतिपदिकाद्धात्वर्थे णिच्, तदन्तात् क्ते विहते शास्त्रित इति। शास्त्रविहित इत्यर्थः। अथ वा शास्त्रिण इतः शास्त्रितः, शास्त्रविद इतः = जातः, प्रवृत्तः। अथ वा-- शास्त्रशब्दस्तारकादिषु द्रष्टव्यः। शास्त्रमस्य सञ्जातमिति शास्त्रितः। `वाचंयमः` इति। वाचं यच्छतीति विगृह्र खचि `वाचंयमपुरन्दरौ च`
6|3|68 इति पूर्वपदस्य मुमभावो निपात्यते। ननु च प्रत्ययोऽपि तेनैव निपातनेन भविष्यति, तत्किमनेन? नैतदस्ति; यच्छतीति पचाद्यचि विहिते ततश्च `वाचो यमः` इति षष्ठीसमासे कृते वाचंयम इति सिध्यति। सम्पद्यत एव, तत्र तु निपातनमनर्थकं स्यात्। एवञ्च सति नित्यमुपपदसमासो न स्यात्। अतः खच्प्रत्ययो विधेयः, निपातनमपि कत्र्तव्यम्॥