Page loading... Please wait.
3|2|38 - प्रियवशे वदः खच्
॥ तस्मै पाणिनये नमः ॥
3|2|38
SK 2953
प्रियवशे वदः खच्   🔊
सूत्रच्छेदः
प्रियवशे (सप्तम्येकवचनम्) , वदः (पञ्चम्येकवचनम्) , खच् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच् प्रत्ययो भवति। प्रियं वदति इति प्रियंवदः। वशंवदः। चकारः खचि ह्रस्वः 6|4|94 इति विशेषणार्थः। खकारो मुमर्थः। प्रत्ययान्तरकरणमुत्तरार्थम्। खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम्। मितङ्गमो हस्ती। मितङ्गमा हस्तिनी। विहायसो विह च। विहायसा गच्छति विहङ्गमः। खच्च डिद्वा वक्तव्यः। विहङ्गः, विहङ्गमः। डे च विहायसो विहादेशो वक्तव्यः। विहगः।
`चकारः `खचिह्यस्वः` इति विशेषणार्थः`इति। `खे ह्यस्वः` इत्युच्यमाने खश्यपि स्यात्। ननु चैकानुबन्धकग्रहणे न द्व्यनुबन्धकस्येति (व्या।प।52) न भविष्यति? एवं तर्हि परिभाषाश्रयणाच्चकारकरणमेव लघ्विति च मन्यते। ननु च प्रियंवदो वशंवद इति खश्यपि सिद्ध्यति, किमर्थं प्रत्ययान्तरकरणमित्याह-- `प्रत्ययान्तरकरणमुत्तरार्थम्िति। `द्विषत्परयोस्तापेः` 3|2|39 इत्यत्र खचि ह्यस्वस्तापेर्यथा स्यात्। णिलोपश्चेत्याद्यर्थं प्रत्ययान्तरं क्रियते। अथोत्तरत्रैव खच् कस्मान्न क्रियते? अत्रापि खज्भवतीति विज्ञानार्थम्। तेन गमेरपि सुप्युपपदे खच् सिद्धो भवति।यदि `खच्प्रकरणे गमेः सुप्यपसंख्यानम्` (वा।247), तत्रोपसंख्यानशब्दस्य प्रतिपादनार्थं प्रत्ययान्तरं क्रियते। प्रतिपादनन्त्विदमेव वेदितव्यम्।`विहायसो विह च` इति। गमेर्विहायःशब्द उपपदे खच्प्रत्ययः, तत्सन्नियोगेन विहायःशब्दस्य विहादेशः। `खच्च डिद्वा वक्तव्यः` इति। डित्त्वाट्टिलोपः स्यात्, `विहायसो विह च` (वा।248) इत्यतोऽस्य भेदेन पाठात्। डित्त्वस्यानित्यत्वज्ञापानार्थम्; अन्यथा विहङ्गम इति न सिध्येत्।`डे च` इत्यादि। डप्रत्यये च गमेर्विहायसो विहादेशः। `विहगः` इति। न पुनरत्र डप्रत्ययः? अस्मादेव वचनाद्भवति। अथ वा वक्ष्यत्युत्तरतः `डप्रकरणेऽन्येष्वपि दृश्यते` (वा।256) इति॥
प्रियवशे वदः खच्॥
सिद्धान्तकौमुदी
प्रियंवदः । वशंवदः ॥गमेः सुपि वाच्यः (वार्तिकम्) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ ।विहायसो विह इति वाच्यम् (वार्तिकम्) ॥ ।खच्च डिद्वा वाच्यः (वार्तिकम्) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥
प्रियवशे वदः खच् - प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थः । खशि प्रकृते खज्विधेरुत्तरसूत्रे प्रयोजनं वक्ष्यते । गमेः सुपि वाच्य इति । "ख" जिति शेषः । ननु संज्ञायामित्यनुवृत्तौगमश्चे॑ति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिदं वार्तिकमित्यत आह — - असंज्ञार्थमिदमिति । विहायस इति । विहायः शब्दः आकासे वर्तते । तस्मिन्नुपपदे गमेः खच् ।गमश्चे॑ति वक्ष्यमाणसूत्रेण , पूर्ववार्तिकेन वा सिद्धः खच्चे॑त्यनूद्यते । प्रकृतेर्विहायश्शब्दस्य विहादेशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति । डित्त्वपक्षे तत्सामथ्र्यादभस्यापि टेर्लोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति । भुजैर्गच्छतीति विग्रहः । द्विषत्परयोः । "तप दाहे" चुरादिः, "तप सन्तापे" भ्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति । द्विषत्, पर अनयोः कर्मणोरुपपदयोस्तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह —
प्रियवशे वदः खच् - प्रियवशे वदः खच् । खकारो मुमर्थः, चकारस्तुखचि ह्यस्वः॑ इति विशेषणार्थ इति वृत्तिः । खे ह्यस्व इत्युच्यमाने एजेः खश जनमेजय इत्यत्रापि स्यादिति तदाशयः ।एकानुबन्धग्ररणे द्व्यनुबन्धस्य न ग्रहण॑मिति खशि न भविष्यतीत्यादिना वृत्तिग्रन्थस्याऽयुक्तत्वमाहुः । खशि प्रकृते प्रत्ययान्तकरणमुत्तरार्थम्, द्विषन्तप इत्यत्र ह्यस्वणिलोपौ यथा स्यातां शप् च माभूदिति । नन्वेवमुत्तरत्रैव क्रियतामिति चेत् । सत्यम् । इह करणमन्यतोऽपि क्वचिद्भवतीति ज्ञापनार्थं तेनगमेः सुपी॑ति नाऽपूर्वं वार्तिकं, किंतु ज्ञापकसिद्धमेव ।* गमेः सुपि वाच्यः । असंज्ञार्थमिति । संज्ञायां तु वक्ष्यमाणेनगमश्चे॑ति सूत्रेणैव सिद्धमिति भावः । * खच्च डिद्वा वाच्यः । विहङ्गम् इति । विहायसा = आकाशेन गच्छतीति विग्रहः । पूर्ववार्तिकेनैवक्यमकृत्वाखच्च डिद्वे॑ ति पृथक्करणसामथ्र्यादन्यत्रापि क्वचिद्भवतीत्याशयेनोदाहरति — भुजङ्गमः । भुजङ्ग इति । इहगमेः सुपी॑ति खच् ।
लघुसिद्धान्तकौमुदी
प्रियंवदः। वशंवदः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.