॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|36
SK 2951
3|2|36
असूर्यललाटयोर्दृशितपोः   🔊
SK 2951
सूत्रच्छेद:
असूर्य-ललाटयोः - सप्तमीद्विवचनम् , दृशि-तपोः - षष्ठीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोः धात्वोः खश् प्रत्ययो भवति। असूर्यंपश्या राजदाराः। ललाटंतपः आदित्यः। असूर्य इति च असमर्थसमासो ऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति। गुप्तिपरं चैतत्। एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यम् अपि न पश्यन्ति इति।
`असूर्यम्पश्याः` इति। प्राघ्रादिसूत्रेण 7|3|78 पश्यादेशः। `दृशिना नञः सम्बन्धात्` इति। असामथ्र्य हेतुः। अत्र हि दर्शनं प्रतिषिध्यते,न तु सूर्य एव। तस्माद्दृशिनैव नञः सम्बन्धः, न सूर्येणेत्यसामथ्र्यम्। `सूर्यं न पश्यन्ति` इति दृशिना नञः सम्बन्धं दर्शयति। यदा सूर्यः प्रतिषध्यते तदा न भवितव्यमेव प्रत्ययेन, अनभिधानात्। समासश्चायमसामर्थ्येऽपि भवति, गमकत्वात्। अस्मादेव वचनाद्वा। ननु च यथा राजदाराः सूर्यं न पश्यन्तीति तथान्यदपि परपुरुषादिकम्, तत्रायुक्तं सूर्येणैकेन विशेषणेनेत्यत आह-- `गुप्तिपरञ्चैतत्` इति। यतेतदसूर्यम्पश्या राजदारा इति वचनमेतद्गुप्तिप्रधानम्; गुप्तिप्रतिपादनाय प्रयुक्तत्वात्। `एवं नाम` इत्यादिना गुप्तिपरत्वमस्य दर्शयति॥
असूर्यललाटयोर्द्दशितपोः॥ असूर्यम्पश्या इति। पाघ्रादिसूत्रेण पश्यादेशः। गुप्तपरं चैतदिति। यद्वचनम्---ठसूर्यम्पश्या राजदाराःऽ इति, एतद् गुप्तिप्रधानम्; तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुद्ध्यत इति भावः। गुप्तिपरत्वमेव प्रकटयति एवं नामेति॥
सिद्धान्तकौमुदी
असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥
असूर्यललाटयोर्दृशितपोः - असूर्यललाट । दृशितपोरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपेश्च खशित्यर्थः । असूर्यमितीति ।असूर्यपश्या॑इत्युदाहरणे असूर्यमित्यसमर्थसमासः सौत्र इत्यर्थः । कुतोऽसामथ्र्यमित्यत आह — दृशिनेति । सूर्यं न पश्यन्तीत्यर्थे नञो दृशिनाऽन्वितत्वेन सूर्यशब्देनाऽन्वयाऽभावादित्यर्थः । ललाटन्तपःसूर्य इति । ललाटं तपतीति विग्रहः । सूर्य पश्यतो ललाटस्य अवश्यं तापादिति भावः ।
असूर्यललाटयोर्दृशितपोः - असूर्यंपश्या इति ।पाघ्राध्मे॑ति पश्यादेशः । गुप्तिपरं चेदम् । एवं नाम राजदारा गुप्ताः, यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति, किं पुनः परपुरुषमिति । तेन सत्यपि सूर्यदर्शन प्रयोगो न विरुध्यते । यदा तु सूर्याऽभावदर्शनमात्रं, सूर्येतरचन्द्रादेर्दर्शनं वा विवक्षितं तदा खश् न भवत्यनभिधानादिति न्यासकारादयः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!