Page loading... Please wait.
3|2|33 - परिमाणे पचः
॥ तस्मै पाणिनये नमः ॥
3|2|33
SK 2948
परिमाणे पचः   🔊
सूत्रच्छेदः
परिमाणे (सप्तम्येकवचनम्) , पचः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश् प्रत्ययो भवति। प्रस्थं पचति प्रस्थंपचा स्थाली। द्रोणंपचः। खारिंपचः कटाहः।
`प्रस्थम्पचा,द्रोणम्पचा` इति। प्रस्थद्रोणपरिमिते व्रीह्रादौ प्रस्थद्रोणशब्दावुपचारेण वत्र्तेते; न प्रस्थादावेव परिमाणविशेषे काष्ठादिमये। क्लेदवाची ह्रत्र पचिः। न च मुख्यस्य प्रस्थादेर्विक्लेदः सम्भवति, अतो न तस्य सम्बन्ध उपपद्यते। स्वरूपग्रहणमप्यत एव न भवति; न हि स्वरूपप्रधानेन परिमाणेन विक्लेदवचनस्य पचेः सम्बन्धः सम्भवति। यद्यपि हि प्रस्थादिशब्दः परिमेये वत्र्तते, तथापि परिमाणव्यपदेशो न तस्य विरुध्यते, प्रथमं परिमाणवृत्तित्वात्॥
परिमाणे पचः॥ परिमाणशब्दः काष्ठादिनिर्मिते प्रस्थादौ वर्तते, न तस्य लिक्लेदवाचिना पचिना कर्मत्वेनान्वयः। अतो न स्वरूपग्रहणम्, किं तर्हि? तद्विशेषाः प्रस्थादयो गृह्यन्ते, ते च परिमेये परिमेये व्रीह्यादौ च वर्तन्ते। तत्र परिमाणनिष्ठानां न पचिनान्वय इति परिमेयनिष्ठेषु प्रत्ययः। न तर्हि परिमाणवाचित्वम्, न; परिमामाध्यारोपेण परिमेये प्रस्थादिशब्दस्य प्रवृतेः॥
सिद्धान्तकौमुदी
प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥
परिमाणे पचः - परिमाणे पचः । परिमाणं प्रस्थादि । तस्मिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पच इति । "खित्यनव्ययस्य" इति ह्यस्वः । मुम् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.