Page loading... Please wait.
3|2|25 - हरतेर्दृतिनाथयोः पशौ
॥ तस्मै पाणिनये नमः ॥
3|2|25
SK 2939
हरतेर्दृतिनाथयोः पशौ   🔊
सूत्रच्छेदः
हरतेः (पञ्चम्येकवचनम्) , दृति-नाथयोः (सप्तमीद्विवचनम्) , पशौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर् धातोः पशौ कर्तरि इन् प्रत्ययो भवति। दृतिं हरति दृतिहरिः पशुः। नाथहरिः पशुः। पशौ इति किम्? दृतिहारः। नाथहारः।
`पशौ कत्र्तरि` इति। एतेन पशुग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणमिति दर्शयति। प्रत्ययार्थत्वं तु `कत्र्तरि कृत्` 3|4|67 इति वचनात्। कुतः पुनरेतदवसितम्-- प्रत्ययार्थस्य विशेषणमेवेति, न पुनर्बाधकमेवेति? तदुच्यते-- धातोः प्रत्ययस्य विधानात् तदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययेन भवितव्यम्। धात्वर्थः = क्रिया तस्याश्च साधनेन सम्बन्धः, न वस्तुस्वरूपेण। साधनञ्च शक्तिः, न वस्तुस्वरूपम्। पशुशब्देन वस्तुस्वरूपेण स्वार्थमाचष्टे। न शक्तिस्वरूपेणेति। तेनाशक्तिस्वरूपे प्रत्याय्यमानः पशुर्नार्हति प्रत्ययार्थो भवितुम्। सोऽप्रत्ययार्थः सन्नशक्तित्वात् कथमिमं प्रत्ययार्थ बाधेत। तस्मात् प्रत्ययार्थः, तेन कत्र्तरि विशिष्यत इति युक्तमुक्तम्-- पशौ कत्र्तरीति। एष न्यायोऽन्यत्रापि प्रत्ययार्थविशेषणे द्रष्टव्यः॥
हरतेर्द्दतिनाथमोः पशौ॥ पशौ कर्तरीति। एतेन प्रत्ययार्थस्य कर्तुः पशुर्विशेषणम्, न तु तस्य बाधक इति दर्शयति। धातोर्हि प्रत्ययविधानातदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययो भवितुमर्हति। धात्वर्थस्य च क्रियायाः साधनेन सम्बन्धः। पशुशब्दस्तु चतुष्पाज्जातीयं वस्तुस्वरूपेणाचष्टे, न शक्तिमद्रूपेण, नतरां शक्तिरूपेणेति। न पश्वर्थः स्वरूपेण प्रत्ययार्थो भवितुमर्हतीति युक्तमुक्तम्पशौ कर्तरीति। एवं सर्वत्र प्रत्ययार्तविशेषणं द्रष्टव्यम्॥
सिद्धान्तकौमुदी
दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.