Page loading... Please wait.
3|2|22 - कर्मणि भृतौ
॥ तस्मै पाणिनये नमः ॥
3|2|22
SK 2936
कर्मणि भृतौ   🔊
सूत्रच्छेदः
कर्मणि (सप्तम्येकवचनम्) , भृतौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मणि इति स्वरूपग्रहनम्। करमशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिः वेतनं, कर्मनिर्वेशः। कर्म करोति इति कर्मकरः भृतकः इत्यर्थः। भृतौ इति किम्? करकारः।
`कर्मणीति स्वरूपग्रहणम्` इति। कुत एतत्? कर्मग्रहणसमाथ्र्यात्। यदि पारिभाषिकस्य कर्मणो ग्रहणमिह स्यात् कर्मग्रहणमनर्थकं स्यात्; कर्माधिकारात्। करोतेश्च सकर्मंकत्वात् तेनैव सम्बद्धो भविष्यति। तथा च प्रागुक्तम्-- कर्मणि सुपीति द्वयमप्यनुवत्र्तते, तत्र सकर्मकेषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति। तस्मात् स्वरूपग्रहणमेवैतत्। `कर्मनिर्देशः`इति। कर्म व्यापारः, तस्य निर्देशः = मूल्यम्॥
कर्मणि भृतौ॥ कर्मणीति स्वरूपग्रहणमिति। अनुवृतेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः॥
सिद्धान्तकौमुदी
कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
कर्मणि भृतौ - कर्मणि भृतौ । भृतिर्वेतनम् । कर्मानुवृत्तौ पुनः कर्मग्रहणात्स्वरूपपरतेत्याह — कर्मशब्द इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.