॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|20
SK 2934
3|2|20
कृञो हेतुताच्छील्यानुलोम्येषु   🔊
SK 2934
सूत्रच्छेद:
कृञः - पञ्चम्येकवचनम् , हेतु-ताच्छील्य-अनुलोम्येषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने। हेतुः ऐकान्तिकं करणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यम् अनुकूलता। हेतौ तावत् शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये श्राद्धकरः। अर्थकरः। आनुलोम्ये प्रैषकरः। वचनकरः। एतेसु इति किम्? कुम्भकारः। नगरकारः।
हेत्वादय एते, नोपपदानि। यदि ह्रुपपदानि स्युः, `शमि धातोः संज्ञायाम्` 3|2|14 इत्यत्र धातुग्रहणमनर्थकं स्यात्। तद्धि कृञो हेत्वादिषु टप्रतिषेधार्थं कृतम्। यद्येषामुपपदत्वं स्याट्टप्रत्ययस्य प्राप्तिरेव नास्तीति धातुग्रहणमनर्थकं स्यात्।अतो नैवामुपपदत्वम्, नापि प्रत्ययार्थत्वम्; `कत्र्तरि कृत्` 3|4|67 इति कर्त्तुः प्रत्ययार्थत्वात्। न च तैर्बाधा युक्ता, विरोधाभावात्। तस्मात् प्रत्ययार्थविशेषमत्वमेषां युक्तम्। तत्र कत्र्तरि प्रत्ययो भवति यस्मिन्नभिधीयमाने तद्विशेषो हेत्वादयो गम्यन्ते। अत एवाह-- `हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने` इति। `हेतुरैकान्तिकं कारणम्` इति। एतेन लौकिकहेतोग्र्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिको हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजकः, यदि तस्येह ग्रहणं स्यात कृञ इति नोपपद्यते; न ह्रण्यन्तात् प्रयोजककत्र्तरि प्रयोजक इत्पद्यते, अपि तु ण्यन्तादन्तर्भावितण्यर्थात् प्रत्यय उत्पद्यत इति चेत्? नैतदस्ति; टप्रत्ययान्तण्ण्यर्थस्याप्रतीतेः। ननु च लौकिकस्य हेतोग्र्रहणे सति निमित्ततया कत्र्ता विशिष्यते, तच्चायुक्तम्; न हि कर्त्तुरनिमित्वमस्ति यद्विशेषणेन व्यावर्त्त्येत? नैष दोषः सिद्धे कर्त्तुर्हि निमित्तत्वे पुनर्हेतुशब्द उपादीयमान ऐकान्तिकत्वं बोधयतीति--यः कत्र्ता यस्याः ऐकान्तिको हेतुरिति। अत एवोक्तम्-- `हेतुरैकान्तिकं कारणम्` इति। आनुलोम्यम् = अनुकूलयामीत्याराध्यचित्तानुप्रवत्र्तनम्। `यशस्करी`इति। `अतः कृकमिकंस` 8|3|46 इत्यादिना विसर्जनीयस्य सत्वम्॥बाल-मनोरमाकृञो हेतुताच्छील्यानुलोम्येषु 748, 3.2.20 कृञो हेतु। हेतुः-- कारणम्। आनुलोम्यम्-- आराध्यचित्तानुवर्तनम्। द्योत्येष्विति। कर्तुरेव प्रत्ययवाच्यत्वादिति भावः। हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात्। कर्मण्युपपदे इत्यपि द्रष्टव्यम्। `कुप्वो`रिति जिह्वामूलीयमाशङ्क्याह-- अत- कृकमीति। हेतावुदाहरति-- यशस्करी विद्येति। विद्या यशोहेतुः। श्राद्धकर इति। श्राद्धक्रियाशील इत्यर्थः। वनकर इति। गुर्वादिवचनानुवर्तीत्यर्थः। बाल-मनोरमानाडीमुष्ट�ओश्च 758, 3.2.20 नाडीमुष्टओश्च। यथासङ्ख्यं नेष्यते इति। इदं तु भाष्ये स्पष्टम्। घटीखारीत्यादि स्पष्टम्।
कृञो हेतुताच्छील्यानुलोम्येषु॥ करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु ठ्कृञ् हिसायाम्ऽ इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च ठ्शमि धातोःऽ इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्यस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्,ठ्कर्तरि कृत्ऽ इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमितत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमितमात्रमुपादीयेत। अनुकूलताऊआराध्यचितानुवर्तनम्। यशस्करी विद्येति। ठतः कृकमिऽ इत्यादिना विसर्जनीयस्य सत्वम्॥
सिद्धान्तकौमुदी
एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि (कौमुदी-160) इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥
कृञो हेतुताच्छील्यानुलोम्येषु - नाडीमुष्टओश्च । यथासङ्ख्यं नेष्यते इति । इदं तु भाष्ये स्पष्टम् । घटीखारीत्यादि स्पष्टम् ।
कृञो हेतुताच्छील्यानुलोम्येषु - कृञो हेतु । हेतुरिह लोकिको न तु तत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, केवले कृञि तदसंभवात् । द्योत्येष्विति । न तु वाच्येषु,कर्तरि कृ॑ दित्यस्य बाधानुपत्तेरिति भावः । हेत्वादिषु क्रमेणोदाहरति — यशस्करीत्यादि । एषु किम् । कुम्भकारः । इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्रते, न तु कृञ् हिंसायामिति । हेतुः — कारणम् । आनुलोम्यमाराध्यित्तानुवर्तनम् ।
लघुसिद्धान्तकौमुदी
एषु द्योत्येषु करोतेष्टः स्यात्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!