॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
3|2|188
SK 3089
3|2|188
मतिबुद्धिपूजार्थेभ्यश्च   🔊
SK 3089
सूत्रच्छेद:
मति-बुद्धि-पूजार्थेभ्यः - पञ्चमीबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
प्रत्यय:  [3|1|1] , परश्च  [3|1|2] , आद्युदात्तश्च  [3|1|3] , धातो:  [3|1|91] , वर्तमाने  [3|2|123]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
मतिः इच्छा। बुद्धिः ज्ञानम्। पूजा सकारः। एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति। राज्ञां मतः। राज्ञाम् इष्टः। राज्ञां बुद्धः। राज्ञां ज्ञातः। राज्ञां पूजितः। राज्ञाम् अर्चितः। अनुक्तसमुच्चयार्थश्चकारः। शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि। 1। हृष्टतुष्टौ तथा कान्तस् तथोभौ संयतोद्यतौ। कष्टं भविष्यति इत्याहुरमृतः पूर्ववत् समृतः। 2। कष्टः इति भविष्यति काले। अमृतः इति पूर्ववत्। वर्तमाने इत्यर्थः। तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवम् आदयो ऽपि वर्तमाने दृअष्टव्याः। इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः। तृतीयाध्यायस्य तृतीयः पदः।
`मतः` इति। `मन ज्ञाने` (धातुपाठः-1176)। इट्प्रतिषेधः `एकाचः` 7|2|10 इत्यादिना, `अनुदात्तोपदेश` 6|4|37 इत्यादिनानुनासिकलोपः। `इष्टः` इति। `{इष--धातुपाठः-} इषु इच्छायाम्`(धातुपाठः-1351)। `उदितो वा` 7|2|56 इति विभाषितत्वान्निष्ठायां `यस्य विभाषा` 7|2|15 इतीट्प्रतिषेधः। `बुद्धः` इति। `बुध अवगमने` (धातुपाठः-858)। पूर्ववद्धत्वम्, तकारस्य जश्त्वम्,धकारस्य दकारः। `पूजितः, अर्चितः` इति। `{भ्वादौ नोपलभ्यते;चुरादित्वेनैव प्रसिद्धः।} पूज पूजायाम्` (धातुपाठः-1642);`अर्च पूजायाम्` (धातुपाठः-204) भ्वादी। एतौ चारदी च, तत्र यदा चुरादिभ्यां प्रत्ययस्तदा `निष्ठायां सेटि` 6|4|52 इति णिलोपः।`शीलितः` इत्यादौ `शील समाधौ`(धातुपाठः-658) `क्षमुष् सहने` (धातुपाठः-442),`क्रुश {आह्वाने रोदने च- धा।पा}आह्वाने` (धातुपाठः-856), `जुषी प्रीतिसेवनयोः (धातुपाठः-1288),` रुष रोषे` (धातुपाठः-1670), `ह्मञ् हरणे` (धातुपाठः-899), `ह्मष तुष्टौ` (धातुपाठः-1229), `ह्मषु अलीके` (धातुपाठः-709),`तुष {प्रीतौ-धातुपाठः-} तुष्टौ (धातुपाठः-1184), `कमु कान्तौ` (धातुपाठः-443), `यम उपरमे` (धातुपाठः-984), `कष हिंसायाम्` (धातुपाठः-685), `मृङ प्राणत्यागे` (धातुपाठः-1403)-- इत्येतेषां धातूनां यथाक्रमेणैतानि रूपाणि। तत्राद्यौ सेटौ। यश्चात्र कश्चिदुदिदूदिच्च, तस्य निष्ठायां `यस्य विभाषा` 7|2|15 इतीट्प्रतिषेधः। यस्त्वीदित् तस्यापि `आईदितो निष्ठायाम्` 7|2|14 इतीट्प्रतिषेधः। ह्मषेरेव `ह्मषेर्लोमसु` 7|2|29 इत्यादिना `रुष्यमत्वरसंघुषास्वनाम्` 7|2|28 इति विभाषितेट्। `{नास्ति-काशिका} कान्तः, क्षान्तः` इति। `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इति दीर्घः। `आक्रुष्टः` इति। व्रश्चादिना 8|2|36 षत्वम्। `संयतः` इति। पूर्ववदनुनासिकलोपः। `अमृतः` इति। गत्यर्थादीनां कत्र्तरि क्तः। `पूर्ववत्` (इति)। यथा शीलादिषु वत्र्तमाने निष्ठा तथाऽमृतशब्दस्यापीत्यर्थः।`सुप्तः`इति। स्वपेः सम्प्रसारणम्। `शयितः` इति। `निष्ठा शीङ` 1|2|19 इत्यादिना कित्त्वप्रतिषेधाद्गुणः। `आशितः` इति। `अश भोजने` (धातुपाठः-1523) आङपूर्वः, `लिप उपदेहे` (धातुपाठः-1433), `तृप प्रीणने` (धातुपाठः-1195)। अत्र अशिशीङौ सेटौ; शेषास्त्वनिटः। `एकाचः` 7|2|10 इत्यादिनेट्प्रतिषेधः। यद्यपि शीलादयो वत्र्तमानकाले व्युत्पाद्यन्ते, तथापि शीलितो देवदत्तेन, रक्षितो देवदत्तेन आक्रुष्टो देवदत्तेनेत्यत्र `क्तस्य च वत्र्तमाने` 2|3|67 इति षष्ठी न भवति। यथा न भवति तथा तत्रैव प्रतिपादितम्॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायांकाशिकाविवरणपञ्जिकायांतृतीयस्याध्यायस्य द्वितीयः पादः।
मतिबुद्धिपूजार्थेभ्यश्च॥ मतिरिच्छेति। बुद्धेः पृथगुपादानाद् बुद्धिर्न गृह्यते। मत इति। ठनुदातोपदेशऽ इत्यनुनासिकलोपः। शीलित इत्यादि। ठ्शील समाधौऽ,ठ्रक्ष पालनेऽ,ठ्क्षमूष् सहनेऽ,ठ्क्रुश आह्वाने रोदने चऽ,ठ्जुषी प्रीतिसेवनयोःऽ,ठ्रुष रोषेऽ,ठ्हृञ् हरणेऽ;ठ्हृषु अलीकेऽ,ठ्हृष् तुष्टौऽ इति वा; ठ्तुष तुष्टौऽ,ठ्कमु कान्तौऽ,ठ्यम उपरमेऽ,ठ्कष हिंसायाम्ऽ मृङ् प्राणत्यागेऽ। तत्राद्यौ सेटौ, उदितामुदितां च ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ईदितः ठ्श्वीदितो निष्ठायाम्ऽ इति। हृष्ट इति। ठ्हृषेर्लोमसुऽ इति। कषेः ठ्कृच्छ्रगहनयोः कषःऽ इति। रुषेः ठ्रुष्यमत्वरसंधुषास्वनाम्ऽ इति विकल्पः। सुप्त इति। सुपेः ठ्त्रीतः क्तःऽ इत्येव सिद्धे नजिङ तच्छीलादिषु बाद्या मा भूदिति समुच्चीयते। क्वचितु सृप्त इति पठ।ल्ते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो तृतीयस्याध्यायस्य द्वितीयः पादः॥
सिद्धान्तकौमुदी
मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥
मतिबुद्धिपूजार्थेभ्यश्च - मतिबुद्धि । मति, बुद्धि, पूजा , अर्थ एषामिति विग्रहः । "वर्तमाने क्त" इति शेष- ।तयोरेवे॑ति भावकर्मणोरेव । मतः इष्ट इति । इच्छार्थकान् मनेरिषेश्च क्तः ।तीषसहे॑ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलितो रक्षित इति । भाष्यस्थश्लोकोऽयम् । इत्यादीति । आदिनारुष्टश्च रुषितश्चोभावभिव्याह्मत इत्यपि । ह्मष्टतुष्टो तथाक्रान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यतीत्याहुरमृतः पूर्ववत्स्मृतः॑ । इति सङ्ग्रहः । कष्टशब्दो भविष्यति, अमृतशब्दो वत्र्तमाने इत्यर्थः ।
मतिबुद्धिपूजार्थेभ्यश्च - राज्ञामिति ।क्तस्य च वर्तमाने॑ इति षष्ठी । इष्ट इति ।तीषसहे॑ ति वेट्कत्वात्यस्य विभाषे॑ति नेट् । शीलित इत्यादि । शील समाधौ, रक्ष पालने, क्षमूष् सहने, क्रुश आह्वाने, जुषी प्रीतिसेवनयोः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
मतिबुद्धिपूजार्थेभ्यश्च (965) (433 कर्तरि क्तप्रत्ययविधिसूत्रम्।। 3 । 2 । 3 ।। आ.14) शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि। रुष्टः च रुषितः चोभावभिव्याहृत इत्यपि।। हृष्टतुष्टौ तथाक्रान्तस्तथोभौ संयतोद्यतौ। कष्टं भविष्यतीत्याहुरमृताः पूर्ववत्स्मृताः।। न म्रियन्ते अमृताः।। मतिबुद्धि।। 188 ।। इति श्रीम्द्भगवत्पतञ्ञ्जलिविरचते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य द्वितीये पादे तृतीयमाह्निकम्।। पादश्च समाप्तः।। पादश्चायं द्वितीयः समाप्तः।।