Page loading... Please wait.
3|2|182 - दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
॥ तस्मै पाणिनये नमः ॥
3|2|182
SK 3162
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे   🔊
सूत्रच्छेदः
दाप्-नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दश-नहः (पञ्चम्येकवचनम्) , करणे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
दाप् लवने, णीञ् प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर् योगे, ष्टुञ् स्तुतौ, तुद व्यथने, षिञ् बन्धने, षिचिर् क्षरणे, मिह सेचने, पत्ल्̥ गतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन् प्रत्ययो भवति। दाति अनेन इति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। अजादित्वात् टाप्, न डीप्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितो ऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवति इति। तेन ल्युट्यपि भवति। दशनम्। नद्घ्री।
`दाप् लवने ` इति। यथा `दाधा घ्वदाप्` 1|1|19 इति सूत्रे `दैप् शोधने` (धापा।924) इत्यस्यापि ग्रहणम्। तर्हीहापि कस्मान्न भवति? अनभिधानात्। प्रकृत्यैव हि दात्रमिति ष्ट्रन्प्रत्ययान्तेन लवनस्य करणमुच्यते, न शोधनस्य। `करणे कारके` इति। एतेन करणप्रत्ययार्थतां दर्शयन्नुपपदत्वं निराकरोति। यद्युपपदत्वमस्यस्यात् तदाजादिषु दंष्ट्राशब्दस्य पाठो नोपपद्यते। `योक्त्रम्` इति। `चोः कुः` 8|2|30 इति कुत्वम्। `मेढ्रम्` इति। `हो ढः` 8|2|31 इति ढत्वम्, `झषस्तथोर्धोऽधः` 8|2|40 इति घत्वम्, `ष्टुना ष्टुः` 8|4|40 इति ष्टुत्वम्, `ढो ढे लोपः` 8|3|13 `दंष्ट्रा`इति। अजादित्वाट्टाप्।`दंशेः`इत्यादि। ननु च यथा `त्यजरज` 3|2|142 इति रञ्जेरनुनासिकनिर्देशे धिनुण्प्रत्यये रागीत्यनुनासिकलोपो भवति, तथा दंशेः ष्ट्रन्प्रत्यये न लोपो भविष्यति,तत्कथमस्य ज्ञापकतोपपद्यते? नैष दोषः; यद्ययं निर्देशो दंशेः ष्ट्रन्प्रत्ययेऽनुनासिकलोपार्थः स्यात्, तदा दंष्ट्राशब्दस्याजादिपाठो विरुध्यते। तस्माज्ज्ञापकार्थत्वम्। `नद्ध्री`इति। `नहो धः` 8|2|34 इति धत्वम्, `झषस्तथोर्धो।धः` 8|2|40 इति तकारस्य धत्वम्, धकारस्य `झलां जश् झशि` 8|4|52 इति जश्त्वम्, `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष्। येऽत्र सेटो धातवः शस्प्रभृतयस्तेषां हि `तितुत्रतथ` 7|2|9 इत्यादिनेट्प्रतिषेधः॥
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ दाप् लवन इति। ठ्दैप् शोधनेऽ इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट।लेव तु भवति। योऽत्र सेट् ततः ठ्तितुत्रऽ इत्यादिनेट्प्रतिषेधः॥
सिद्धान्तकौमुदी
दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे - दाम्नी । दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः । "दाप् लवने" इत्यस्य पकारस्य स्थाने "यरोऽनु" इति कृतमकारस्य निर्देशः । अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽ‌ऽह —
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
दाबादेः ष्ट्रन् स्यात्करणेर्ऽथे। दात्यनेन दात्रम्। नेत्रम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.