Page loading... Please wait.
3|2|179 - भुवः संज्ञाऽन्तरयोः
॥ तस्मै पाणिनये नमः ॥
3|2|179
SK 3159
भुवः संज्ञाऽन्तरयोः   🔊
सूत्रच्छेदः
भुवः (पञ्चम्येकवचनम्) , संज्ञा-अन्तरयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 धातोः  3|1|91 वर्तमाने  3|2|123
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भवतेर् धातोः संज्ञायाम् अन्तरे च गम्यमाने क्विप् प्रत्ययो भव्ति। विभूर्नाम् कश्चित्। अन्तरे प्रतिभूः। धनिकाधमर्णयोरन्तरे यस् तिष्ठति स प्रतिभूरुच्यते।
Text Unavailable. Please use feedback link below to provide the text if you have.
भुवः संज्ञान्तरसोः॥ धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृतेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र ठ्संज्ञायाम्ऽ इत्येव सिद्धम्? अत्राहुः-----यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते॥
सिद्धान्तकौमुदी
मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥
भुवः संज्ञाऽन्तरयोः - भुवः संज्ञान्तरयोः ।क्वि॑बिति शेषः ।संज्ञान्तरयोरेवेति॑ नियमार्थं सूत्रम् । संज्ञायामुदाहरति — मित्रभूर्नामेति । अन्तरे उदाहरति — धनिकेत्यादि । यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः ।
भुवः संज्ञाऽन्तरयोः - भुवः संज्ञा । धनिकेत्यादि । तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः । एतच्च दृशिग्रहमाऽनुवृत्त्या लभ्यते । नन्वेवं प्रतिभूशब्द संज्ञेति फलितं, तत्रसंज्ञाया॑मित्येव सिद्धं किमन्तरग्रहणेन । अत्राहुः- यावद्द्रव्यभाविन्यः संज्ञाः । प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति । शं सुखं भावयतीति शम्भुरित्यर्थाभ्युपगमेनाह — अन्तर्भावितेति । शं भवति= सुखस्वरूपो भवतीति शम्भुरित्यन्ये । सं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाऽभावाच्चिन्त्येति माधवः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.